SearchBrowseAboutContactDonate
Page Preview
Page 78
Loading...
Download File
Download File
Page Text
________________ द्वितीयपादः ] अवचूरिपरिष्कारसहितायाम् । ३९ आ एवं किल मन्यसे, आ एवं नु तत् । अनाङिति किम् ? आ इहि एहि ॥ ओदन्तः ॥३७॥ ओदन्तश्चादिः स्वरे परेऽसन्धिः स्यात् । अहो अत्र ॥ सौ नवेतौ ॥३८॥ सिनिमित्त ओदन्त इतौ परेऽसन्धिर्वा स्यात् । पटो इति, पटविति ॥ ॐ चोञ् ॥३९॥ उञ् चादिषणत्वेन · विशेषणमन्त' इति परिभाषया तदन्तविधिः प्राप्नोति, तथाप्यनाङिति पर्युदासात् पर्युदासस्य च सदृशग्रहणरूपत्वात्, आङ्भिन्नाङ्सदृशस्यैव स्वरस्य ग्राह्यतया न तदन्तविधिः, उत्तरसूत्रेऽन्तग्रहणेनात्र केवलस्यैव सम्मतत्वाद्वाऽऽह-आर्जश्चादिः स्वर इति । अ अपेहीति, अपपूर्वकात् इंणूक् गताविति धातोः पञ्चमी हिप्रत्यये गुणे च अपेहीति भवति, अनेन चाकारेण सन्ध्यभावः । अ इति निर्भत्सने, अ अपेहि दूरीभवेत्यर्थः । इ इति सम्बोधने विस्मये वा। उ इति सम्बोधने रोषोक्तौ वितर्के वा। आ एवं किल मन्यसे, पूर्वप्रक्रान्तवाक्यार्थस्याऽन्यथाद्योतकोऽयमाकारः। पूर्व मित्थं नाऽगंस्थाः, इदानीं त्वेवं मन्यसे इत्यर्थः, वृद्धौ प्राप्तायामसन्धिः । आ एवं नु तत्, स्मरणद्योतकोऽयमाकारः, उभयत्राऽऽकारः आभिन्नः। आ इहि एहि, अत्र आ इति आकुपसर्गः, अत्र तु गुणः । · ईषदर्थे क्रियायोगे मर्यादाऽभिविधौ च यः, एतमातं डितं विद्यात् वाक्यस्मरणयोरडित् ।' इत्याकारस्याङ्त्वाऽनाङ्त्वप्रदर्शिका कारिका ॥ ओत् अन्ते यस्य स ओदन्तः ॥ चादिः, स्वरे, असन्धिरित्यनुवर्तन्ते । अहो इत्यादयोऽखण्डाश्चादय इति पृथग्योगः, पूर्वसूत्रेऽनाडिति पर्युदासादेकस्वररूपचादेरेव ग्रहणस्येष्टतया वा पृथग्योगः । अहो अत्रेत्यत्रावादेशे प्राप्तेऽनेनाऽसन्धिः ।। सौ सप्तमी, नवा, इतौ सप्तमी । ओदन्तः असन्धिः इत्यनुवर्तते । आमन्त्र्यविहितः सिरत्र ग्राह्यः, अन्येन स्वरस्य व्यवधानादोकायारस सम्भ वाच्च प्राप्तेरभावात् प्रतिषेधोऽनर्थकः स्यात् । पटुशब्दात् सम्बो.
SR No.023395
Book TitleSiddha Hem Llaghu Vrutti Avchuri Parishkar
Original Sutra AuthorN/A
AuthorJitendravijay
PublisherRanjanvijay Jain Pustakalay
Publication Year2007
Total Pages470
LanguageSanskrit
ClassificationBook_Devnagari
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy