SearchBrowseAboutContactDonate
Page Preview
Page 77
Loading...
Download File
Download File
Page Text
________________ ३८ सिद्धहेमलघुवृत्तौ [ प्रथमाध्यायस्य 1 न्धिनौ मुमी इत्येतौ खरे परेऽसन्धी स्याताम् । अमुमु ईचा । अमी अश्वाः ॥ चादिः स्वरोऽनाङ् ||३६|| आवर्ज्जश्चादिः स्वरः स्वरे परेऽसन्धिः स्यात् । अ अपेहि, इ इन्द्रं पश्य, उ उत्तिष्ठ, परत्वेन अदस् शब्दार्थपरत्वाभावान्नामुष्य मुमी इति विग्रहः, सूत्रस्वादौलोपः | अदसः अग्रे अब्रू गतौ च, अमुमञ्चतीति किपू, 'अचोऽनचयामिति न लोप:, ' सर्वादिविष्व ' गिति अदस् परः डद्रिप्रत्ययः, डित्, अदस् अद्रि अच् इति स्थिते, ' डित्यन्त्यस्वरादेरिति अदसो ऽस्लोपे अद्रि अच् इति स्थिते, ' वाडद्रा ' विति दकारस्य मकारः कर्त्तव्यस्तत्र मतचतुष्टयम् । १. केचिह्नितीयदकारस्य, २. अपरे पूर्वदकारस्य, ३. उभयोः केचित्, ४. नोभयोरित्यन्ये तत्र द्वितीयदकारस्य मकारे 'मादुवर्णोऽनु' इत्यनेन मपरस्य वर्णस्य उवर्णे अदमु इअच् इति जाते, इकारस्य यत्वे अदमुयच् इति सञ्जाते, अचः इति नागमः, ' पदस्ये 'ति चलोपे, 'युजञ्चक्रुञ्चो नो ङः' इति नकारस्य ङकारे अदमुयङ् इति सिद्धम् । पूर्वदकारस्य मत्वे, तत्सम्बन्धिनः अकारस्य उत्वे, अमुद्रि अच् इति जाते, यत्वे अमुद्रयङ् इति सिद्धम् । उभयोर्दकारयोर्मत्वे अमुमुयङ् इति सिद्ध्यति, उभयोर्दकारयोर्मत्वाऽभावे अदय इति प्रथमैकवचने रूपचतुष्टयम् । तृतीयैकवचने उदाहरणानुरूपेण अमुमु इ अच् आ इति स्थिते, 'अच्च् प्राग्दीर्घचे ' त्यनेनाचः चादेशे पूर्वस्वरस्य च दीर्घे अमुमुईचा इति भवति । अत्रे ' वर्णादे' रिति वत्वे प्राप्तेऽनेनासन्धिः । अदस्, जस इः, 'आद्वेरः ''लुगस्या ' अद इ इति जाते, 'मोऽवर्णस्य' इति दस्य मः, 'अवर्णस्ये' ति ए, " 6 " बहुष्वेरीः ' इत्येकारस्य ईकारः । अमी अश्वाः, यत्वे प्राप्तेऽनेनासन्धिः ।। च आदिर्यस्य सः चादिः स्वरः, न आङ् अनाङ् || स्वरे, असन्धिरिति चानुवर्तेते । यद्यप्यत्र चादेः स्वर इत्यस्य विशे (
SR No.023395
Book TitleSiddha Hem Llaghu Vrutti Avchuri Parishkar
Original Sutra AuthorN/A
AuthorJitendravijay
PublisherRanjanvijay Jain Pustakalay
Publication Year2007
Total Pages470
LanguageSanskrit
ClassificationBook_Devnagari
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy