________________
द्वितीयपादः ] अवचूरिपरिष्कारसहितायाम् भाग् न स्यात् । देवदत्त ३ अत्र न्वसि । अनिताविति किम् ? सुश्लोकेति ॥ इ ३ वा ॥३॥. इस्थानः प्लुतः स्वरे परेऽसन्धिर्वा स्यात् । लुनीहि ३ इति, लुनीहीति ॥ ईदूदेद्विवचनम् ॥३४॥ ई ऊ ए इत्येवमन्तं द्विवचनान्तं स्वरे परेऽसन्धिः स्यात् । मुनी इह, साधू एतौ, माले इमे, पचेते इति । इदूदेदिति किम् ? वृक्षावत्र । द्विवचनमिति किम् ? कुमार्यत्र ॥ अदोमुमी ॥३५॥ अदसः सम्ब
सिलोपः, वा । स्वरे, असन्धिः, इत्यनुवर्तेते, लूग्श् छेदने, पञ्चमी हि, क्रयादेः भा, 'एषामीय॑ञ्जने' इति नी, ' प्वादेर्हस्वः ' ' क्षियाऽऽशीः ' इति प्लुतः, लुनीहि ३ इति । इतावप्राप्तेऽन्यत्र च प्राप्ते उभयत्र विकल्पार्थं वचनम् ॥ ईच्च ऊच्च एच ईदूदेत् , द्वौ अौँ वक्तीति द्विवचनम् ॥ स्वरे, असन्धिरित्यनुवर्तते । 'विशेषणमन्तः,' अभेदेनोक्तोऽपयवो विशेषणम् , तद्विशेष्यस्य समुदायस्यान्तः स्यात् । तथा च द्विवचनरूपं यदीदूदेत् तदन्तः सन्धि न प्राप्नोतीतीदूदेद्विशेप्यं विधायार्थकरणे माले इत्यत्रासन्धेः प्राप्तावपि पचेते इत्यादौ न स्यात् , आते इति द्विवचनस्यैदन्तत्वेऽप्येकाररूपत्वाभावात् । इदूदे. दन्तं द्विवचनमित्युक्तौ तु पचेते इत्यत्रासन्धेः प्राप्तावपि माले इत्यादौ न स्यात् , तत्र ईकारादेः द्विवचनत्वेऽपीदन्त द्विवचनाभावादित्युभयत्र दोषादाह-ई ऊ ए इत्येवमन्तं द्विवचनान्तमिति समुदायोऽत्र विशेध्यम् । यः समुदायः ईदूदेदन्तः, अथ च द्विवचनान्तः सः सन्धि न प्राप्नोतीत्यर्थः । तथा च माले पचेते इत्यादौ न दोषः, तादृशसमुदायस्य द्विवचनान्तत्वादीदूदेदन्तत्वाच्च । मुनी इह, साधू एतौ, माले इमे, पचेते इति, अत्र सर्वत्र न सन्धिः । मणीवोष्टस्य, दम्पतीवे. त्यादौ, औपम्ये वशब्दः न विवशब्दः । कुमार्यत्रेत्यत्र तु इवर्णादेरित्यनेन यत्वम् || मुश्च मीश्च मुमी, अदसो मुमी अदोमुमी ॥ अ. त्रादस् शब्दस्य 'स्वं रूपं शब्दस्याशब्दसंज्ञे 'ति परिभाषया शब्द