SearchBrowseAboutContactDonate
Page Preview
Page 74
Loading...
Download File
Download File
Page Text
________________ द्वितीयपादः ] अवचूरिपरिष्कारसहितायाम् । लुक् ।।२७। एदोद्भयां पदान्तस्थाभ्यां परस्याकारस्य लुक् स्यात् । तेऽत्र, पटोऽत्र । पदान्त इति किम् ? नयनम् ॥ गोर्नाम्न्यवोऽक्षे ॥२८|| गोरोतः पदान्तस्थस्य अक्षे परे संज्ञायां अव इति स्यात् । गवाक्षः । नाम्नीति किम् ? गोऽक्षाणि ॥ स्वरे वाऽनक्षे ॥२९॥ गोरोतः पदान्तस्थस्य स्वरे परे अव इति वा स्यात् , स चेत् स्वरोऽ तस्मात् , पदस्यान्तः पदान्तस्तस्मिन् , अस्य, लुक् ॥' पञ्चम्या निर्दिष्टे परस्य ' पञ्चम्या निर्दिष्टे यत्कार्यमुच्यते तत्तदव्यवहितस्य परस्य स्थाने भवतीति परिभाषया एदोद्भयां परस्येत्युक्तम् । ननु पदान्त इति व्यधिकरणं विशेषणं किमस्येत्यस्य, उत एदोत इत्यस्य, उच्यते, एदोत इत्यस्यैव न त्वस्य, अन्यथा ' गोर्नाम्न्यवोऽक्षे ' इति सूत्रेणालोपबाधनार्थमवाऽऽदेशविधानं न स्यात् , अलोपाप्राप्तेः पदान्तेऽभावात् । अयवोरपवादः, तद्, 'आद्वेरः' 'जस इ., ' ते अत्र, अनेनाकारलोपः । पटु, सम्बोधने ह्रस्वस्य गुणः पटो अत्र । णींग प्रापणे, नीयतेऽनेनेति नयनम् , ने अनम, अत्र पदान्ताभावादनेन नाकारलोपः किन्त्वयादेशः ॥ गोः षष्ठी, नाम्नि सप्तमी, अवः प्रथमा, अक्षे सप्तमी । एदोतः इत्यस्मादोतः पदान्ते इत्यनुवर्तेते, न तु एदित्यस्य, असम्भवात् । नाम्नीत्यस्य संज्ञायां गम्यमानायामित्यर्थः । गोरक्षीव गवाक्षः। ' अक्ष्णोऽप्राण्यङ्गे' इति अत्समासान्तः । ' अवर्णेऽवर्णस्ये 'त्यलोपः, गो अक्ष इति स्थितेऽनेनावादेशः, 'समानानां तेन दीर्वः' गवामक्षाणि गोऽक्षाणि, पूर्वसूत्रेणास्य लुक् ॥ स्वरे सप्तमी, वा, न अक्षः अनक्षस्तस्मिन् ॥ गोः, ओत. पदान्ते अव इति वर्तन्ते, एवमप्रेऽपि, गवामग्रं गवाग्रं वैकल्पिकोऽवादेशः, सन्निपातपरिभापाया अनित्यत्वाद्दीश्व, पक्षे गोऽयम्, 'एदोतः' इत्यस्य लुक्, अत्र 'वात्यसन्धि 'रित्यसन्धिरपि, तेन गो अग्रमित्यपि । गोः ईशः
SR No.023395
Book TitleSiddha Hem Llaghu Vrutti Avchuri Parishkar
Original Sutra AuthorN/A
AuthorJitendravijay
PublisherRanjanvijay Jain Pustakalay
Publication Year2007
Total Pages470
LanguageSanskrit
ClassificationBook_Devnagari
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy