________________
३४
सिद्धमलघुवृत्तौ
[ प्रथमाध्यायस्य
1
प्रत्यये परे यथासंख्यमव् आवौ स्याताम् । गव्यति, गव्यते, नाव्यति, नाव्यते, लव्यम्, लाव्यम्, अक्य इति किम् ? उपोयते । औयत ॥ ऋतो रस्तद्धिते ||२६|| ऋकारस्य यादौ तद्धिते परे रः स्यात् । पित्र्यम् । तद्धित इति किम् ? कार्यम् ॥ एदोतः पदान्तेऽस्य
1
नाव्यति, नौरिवाऽऽचरति क्यङ्, नाव्यते । लूयते इति लव्यम्, ये गुणः, अवश्यं लूयते इति लाव्यम्, 'उवर्णादावश्यके ' ध्यण, ' नामिनोऽकलि ' वृद्धिः । नन्युक्तक्यप्रत्ययेन 'नयुक्तं तत्सदृशे ' इति न्यायेन क्यसदृशस्य यकारादिप्रत्यये परे एव आदेश विधानादिह न भवति, गवां यूतिः गोयूतिः । गव्यूतिरिति त्वव्युत्पन्नः संज्ञाशब्दः, गवां यूतिर्गव्यूतिरिति व्युत्पत्तिपक्षे तु पृषोदरादित्वादवाssदेशः, गव्यूतिः क्रोशद्वयम् । नावा यानं नौयानम् । उप वेंग् तन्तुसन्ताने, वर्तमाने ते, ' क्यः शिति' इति क्यप्रययः । दिवचेः किति' वः उ, ' दीर्घवियङ्कयेषु चे 'ति ऊः । उप ऊयते, ' अवर्णस्ये' त्योत्वम् क्यवज्र्जनान्नान्त्राच् । अत्र धातूपसर्गकार्यस्य गुणस्य बहिरङ्गत्वेन व्यक्य इत्यवाऽऽदेशे कर्त्तव्ये ऽसिद्धत्त्वेन नात्राव् प्राप्नोतीत्यरुचेरुदाहरणान्तरं दर्शयति औयत इति । वें
" यजा •
"
"
अड्धातो' रिति अड्, ' आत्सन्ध्यक्षरस्ये 'त्यात्वे ह्यस्तनी त क्यः शिती' ति क्यः, ' यजादिवचे: ' ' स्वरादेस्तासु ' वृद्धिः ॥ ऋतः षष्ठी, रः प्रथमा, तस्मै लौकिकवैदिकशब्दसन्दर्भाय हितः तद्धितस्तस्मिन् तद्धिते ॥ ' यि' इत्यनुवर्त्तते । पितरि साधुः पित्र्यम्, ' तत्र साधौ यः ' अनेन ऋकारस्य रः । डुकंग् करणे क्रियत इति कार्यम्, ' ऋवर्णव्यञ्जनाद् ध्यण् ' 'नामिनोऽकलि ' इति वृद्धिः । यद्यप्यत्र परत्वात् 'नामिनोऽकलि ' इति वृद्धिरेव भवति, न तु रः, अतस्तद्धितग्रहणमत्र व्यर्थं, तथापि जागृयादित्यादौ ऋकारस्य रत्ववारणाय तग्रहणं सार्थकम् ॥ एच्च ओच्च एदोत्
"