________________
द्वितीयपादः] अवचूरिपरिष्कारसहितायाम् । याय् ॥२३।। एदैतोः स्वरे परे यथासंख्यं अय् आय् इत्येतौ स्याताम् । नयनम् , वृक्षयेव, नायकः, रायैन्द्री ॥ ओदौतोऽवाव् ॥२४॥ ओदौतोः स्वरे परे यथासंख्यं अव् आव् इत्येतौ स्याताम् । लवनम् , पटवोतुः, लावकः, गावौ ॥ व्यक्ये ॥२५॥ ओदौतोः क्यवर्जे यादौ
एकपदाऽऽश्रयेण निषेधः प्रधानम् , तस्मात् ‘गौणमुख्ययोर्मुख्ये कार्यसम्प्रत्यय ' इति न्यायेन प्रधानाश्रितमेवात्र कार्य भवतीति न ह्रस्वः । अपदे इत्येकवचनान्तेन एकत्वस्य विवक्षितत्वादेकत्र पदे न स्यातामित्युक्तम् । तच्च पदं नद्यौ इत्यपि, नद्यर्थ इत्येवं समासोऽ पि ॥ एच ऐच्च एदैत् तस्य, अय् च आय् च अयाय । स्वरे इत्यनुवर्तते, इवर्णादिसम्बद्धस्याऽस्व इत्यस्य तन्निवृत्तौ निवृत्तेः, तन्निवृत्तिश्च एदैत इत्युक्तेः । णींग प्रापणे, नीयतेऽनेनेति नयनम् , करणाधारेऽनट् , ' नामिनो गुणः ने अयनम् , अनेन अय् । वृक्षे एव स्वे स्वरे परेऽप्यत्र अय् । नयतीति नायकः, णकतृचौ णकः, 'नामिनोऽकलि' इति नै अकः । राक् दाने रायते महेच्छैरिति रैः, इन्द्रो देवताऽस्या इति ऐन्द्री, रायः ऐन्द्री रायैन्द्री, रै ऐन्द्री ॥ ओच्च औच्च ओदौत् तस्य, अव् च आव् च अवाक् ॥ स्वरे इत्यनुवर्तते । लूयतेऽनेनेति लवनम् , अनटू प्रत्ययः, ' नामिनो गुणः ' लो अनम् , अनेनाव् । पटु ' ह्रस्वस्य गुणः, ' पटो ओतुः, लुना. तीति लावकः, णकतृचौ, 'नामिनोऽकलि ' लौ अकः । गौ औ ।। यि सप्तमी, न क्यः अक्यः तस्मिन् । ओदौतोऽवावित्यनुवतते । ' सप्तम्याः पूर्वस्य' । 'एकानुबन्धग्रणे न द्व्यनुबन्धकस्ये' ति न्यायेनैकानुबन्धस्य क्यस्य वर्जनात् व्यनुबन्धके क्यनि क्यङि च अवावौ स्यातामेवेत्यत आह गव्यतीत्यादि । गामिच्छति गव्यति, अमाव्ययात् क्यन् । वर्तमाने तिव, शव , अनेन अव , गौरिवाऽऽचरति गव्यते क्यङ, वर्तमाने ते । नावमिच्छति