SearchBrowseAboutContactDonate
Page Preview
Page 71
Loading...
Download File
Download File
Page Text
________________ ३२ सिद्धहेमलघुवृत्तौ [प्रथमाध्यायस्य ऋल वर्णानामस्वे स्वरे परे यथासंख्यं य व र ल इत्येते स्युः । दध्यत्र, नयेषा, मध्वत्र, वध्वासनं, पित्रर्थः, क्रादिः, लित् , लाकृतिः ॥ हस्वोऽपदे वा ॥२२॥ इवर्णादीनामस्वे स्वरे परे ह्रस्वो वा स्यात् । न चेत्तौ निमित्तनिमित्तिनावेकत्र पदे स्याताम् । नदि एषा, नद्येषा । मधु अत्र, मध्वत्र । अपद इति किम् ? नद्यौ, नद्यर्थः ॥ एदैतोऽ व्यवहितपूर्वस्यैव इवर्णादेर्भवति । तथा चोक्तप्रयोगे वकारोत्तरवर्तीवर्णस्यैव कार्य विधेयम् , तदव्यवहितोत्तरमेव अस्वस्वरसद्भावात् , न तूकारस्य, तदव्यवहितोत्तरं पकारस्य सद्भावेनास्वस्वरस्य व्यवहितत्वात् । नदी एषा, मधु अत्र वधू आसनम् , पितृ अर्थः, क आदिर्यस्य सः क्रादिः, लू इत् अनुबन्धो यस्य सः लित् , लुवदाऽऽकृतिः यस्य सः। 'इवर्णादे 'रित्यत्र केचित् पञ्चमी व्याख्यानयन्ति, तन्मते दधियत्र, मधुवत्र, भूवादय इति स्यात् ।। हूस्वः न पदं अपदं तस्मिन् , वा । इवर्णादेरस्वे स्वरे इत्यनुवर्तन्ते । नदी एषा, अनेन हस्वत्वम् , पक्षे यत्वम् । यद्यपि ईकारैकारयोस्तालव्यत्वात् इवर्णस्य अस्वस्वरपरत्वं नास्तीति ह्रस्वयत्वे न स्याताम् , तथापि ' एदैतोः कण्ठतालु, ओदौतोः कण्ठोष्ठमिति मतान्तरमाश्रित्य ते विज्ञेये ।। मधु अत्र ह्रस्वस्यापि ह्रस्वः, ननु किमर्थं ह्रस्वस्य ह्रस्वकरणं फलाभावादिति चेन्न, 'पर्जन्यवल्लक्षणप्रवृत्तेः', यद्यपि हूस्वस्य ह्रस्वे कृते यत्वादिकार्यान्तराभवनलक्षणं फलमस्त्येव, तथापि तत्फलं. न तादात्विकं किन्तु कालान्तरभावि, अत एव पर्जन्यवदित्युपमानं साकूतम् । पर्जन्यस्यापि हि जलपूर्णे वर्षतः तत्काले फलं नास्त्येव, कालान्तरे तु ओषधिनिष्पत्तिरसाऽऽधिक्यादिकं फलमस्त्येवेति ह्रस्वविधानसामर्थ्यात् कार्यान्तरं न भवति । नद्याः अर्थः नद्यर्थः, अत्रान्तर्वतिन्या विभक्तेरपेक्षया पदभेदेऽपि समासे सति ऐकपद्यमिति युगपत् पदत्वमपदत्वञ्च, तत्र पदभेदाश्रयेण विधीयमानो हस्वः गौणः,
SR No.023395
Book TitleSiddha Hem Llaghu Vrutti Avchuri Parishkar
Original Sutra AuthorN/A
AuthorJitendravijay
PublisherRanjanvijay Jain Pustakalay
Publication Year2007
Total Pages470
LanguageSanskrit
ClassificationBook_Devnagari
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy