________________
द्वितीयपादः ] अवचूरिपरिष्कारसहितायाम् । प्रेलयति, परेलयति, प्रोषति, परोषति, अनिणेधिति किम् ? उपैति, · प्रैधते ॥ वा नाम्नि ॥२०॥ नामावयवे एदादावोदादौ च धातौ परे उपसर्गावर्णस्य लुग् वा स्यात् । उपेकीयति, उपैकीयति । प्रोषधीयति, प्रौषधीयति ॥ इवर्णादेरस्वे स्वरे यवरलम् ॥२१॥ इ उ
एधि वृद्धौ, प्र एधते, अत्र ' ' ऐदौदि 'त्यनेन वृद्धिः ॥ वा, नामन् तस्मिन् । उपसर्गस्य, एदोतीति पदद्वयमनुवर्तते । उप एकमिच्छति क्यनि एकीयति । अत्रोपेत्यत्रावर्णलुपि उपित्यस्य पदत्वात् 'धुटस्तृतीय ' इत्यनेन पस्य बकारः प्राप्तः, सः ' असिद्धं बहिरङ्गमन्तरङ्गे' इति न्यायेन न भवति, ' वा नाम्नि' इत्यस्य बह्वपेक्षत्वेन बहिरङ्गत्वात् । प्र ओषधिमिच्छति क्यनि प्रोषधीयति । पक्षे, 'ऐदौत्सन्ध्यक्षरैः ॥ इवर्ण आदिर्यस्य स इवर्णादिः, तस्य, न स्वः अस्वस्तस्मिन् , स्वरे यश्च वश्च रश्च लश्च यवरलम् ॥ इवर्णादेरित्युक्तत्वादवर्णस्येति निवृत्तम् । अस्वे स्वरे इत्यसमस्ताभिधानमुतरसूत्रेषु केवलं स्वर इत्यस्यैवाऽनुवृत्त्यर्थम् । अस्व इति विशेषणन्तु 'ह्रस्वोऽपदे वे' त्यत्राऽऽवश्यकतयाऽत्र स्पष्टप्रतिपत्तयेऽभिहितं न तु दधि इदमित्यत्र यत्वप्रसङ्गवारणार्थ, 'समानानां तेन दीर्घ' इत्यनेन बाधनात् । इवर्णादेरिति सामान्यनिर्देशः, एवं यवरलमित्यपि । अत एव यथासङ्खयोपपत्तिः, व्यक्त्या निर्देशे तु इवर्णादेरि. त्यनेन द्वासप्ततेः, यवरलमित्यनेन च सप्तानामुपस्थित्या यथासङ्घयता न स्यात्, दधि अत्र, यत्वम् । देवी उपासनेत्यत्रेवर्णः वकारोत्तरवर्तीकारः, ततः परमस्वस्वरः उकारः, एवमिवर्ण उपासनेत्यत्र उकारः, ततः परमस्वस्वरः पकारोत्तरवाऽऽकारः, तत्रं कस्य कार्यं विधेयमिति शङ्का जायते, परिहारश्च ‘सप्तम्याः पूर्वस्य' सप्तमीनिर्देशेन विधीयमानं कार्यं तदव्यवहितपूर्वस्य भवतीति परिभाषया अस्वे स्वर इति सप्तमीनिर्देशेन विधीयमानं कार्यं तद