________________
२८
सिद्धहेमलघुवृत्तौ
[ प्रथमाध्यायस्य
ऊटा ||१३|| अवर्णस्य परेण ऊटा सह औः स्यात् । धौतः, धौतवान् ॥ प्रस्यैषैष्योढोढ्यूहे स्वरेण || १४ || प्रावर्णस्य एषादिषु
:
"
उपगुः, उपगोरपत्यं औपगवः, तव औपगवः । सन्ध्यक्षरैरिति ऐत्व निर्देशादुपसर्गस्येति निवृत्तम्, गुणापवादोऽयम् ॥ ऊटा तृतीया ॥ 'ऐदौत्सन्ध्यक्षरैरि 'ति ऐदौतोऽनुवृत्तावपि ' आसन्न ' इति सूत्रेण स्थानीभूताssकृतिको कारसदृशः औकार एवात्र भवतीत्याशयेन औः स्यादित्युक्तम् || धावूगू गतिशुद्धयोः, धाव्यते स्म धौतः, धावति स्म धौतवान्, क्तक्तवतू, अनुनासिके च च्छूः शूद्' इति वः अनेन औ ' अवर्णस्ये' त्यस्यापवादोऽयम् ॥ प्रस्य षष्ठी | एषश्च एष्यश्च ऊढश्च ऊढिश्व ऊहश्च एषैष्योढोढ्यूहस्तस्मिन् स्वरेण ॥ ऐदोत् इति वर्तते, प्र ईषत् इच्छायाम्, एषणमेषः, प्र एषः प्रैषः, प्रेषणं प्रैषः, घञ् प्रत्ययः । एष्यत इति एष्यः । ' ऋवर्णव्यञ्जनाद् ध्यण्,' प्र एष्यः प्रैष्यः प्रवहति स्म प्रौढः क्तः । प्रवहणं प्रौढिः, स्त्रियां क्तिः । ऊहि वितर्के, प्रोहणं प्रौहः घञ् । अत्र एष एण्य ऊढादयः अर्थग्रहणे नानर्थकस्य ग्रहणमि 'ति न्यायेन सार्थका ग्राह्याः, तेन प्रेषते प्रेष्यते प्रोढवानित्यादयो न गृह्यन्ते । ऊढिरपि ऊढसाहचर्यात् स्याद्यन्त एव ग्राह्यः तेन प्रोढयतीत्यत्र न औत् | 'येन नाप्राप्ते यो विधिरारभ्यते स तस्य बाधको भवतीति न्यायेन ' उपसर्गस्यानिणेघेदोती ' त्यस्यैव बाधकः, न तु ' ओमाङी 'त्यस्य, तेन आ ईष्यः एष्यः, प्र एण्यः प्रेष्यः इत्यत्र नैत् एवञ्च आ ईष्यः एष्यः ततः प्रोपसर्गेण योगे आङ् तो: स्थाने जातस्य एत उभयस्थाननिष्पन्नत्वेन ' उभयस्थाननिष्पन्नोऽन्यतरव्यपदेशभागि 'ति न्यायेन यदा आङादेशत्वम्, तदा ' ओमाङी 'त्यलुकि प्रेष्य इति स्यात्, यदा च धात्वादेशत्वं तदा ' उपसर्गस्यानिषेधे दोती ' त्यनेन प्रस्य प्राप्तमलुकं बाधित्वा विशेष
"
ऊद,
"
6
-