________________
द्वितीयपादः ] अवरिपरिष्कारसहितायाम् । परेषु परेण स्वरेण सह ऐ औ स्याताम् ॥ प्रैषः, प्रैष्यः, प्रौढः, प्रौढिः, पौहः ॥ स्वैरस्वैर्यक्षौहिण्याम् ॥१५॥ स्वैरादिष्ववर्णस्य परेण • स्वरेण सह ऐ औ स्याताम् । स्वैरः, स्वैरी, अक्षौहिणी सेना ॥ अ. नियोगे लुगेवे ॥१६|| अनियोगोऽनवधारणं तद्विषये एवे परेऽ विहितत्वादनेन सूत्रेण ऐत्वे कृते प्रैष्य इति भवति । न च एषै. 'ध्ययोः घध्यणन्तयोः धातुत्वाभावात्कथं ' उपसर्गस्ये 'ति सूत्रं प्राप्नोतीति वाच्यम्, क्लिबन्तस्येवान्यप्रत्ययान्तस्यापि धातुत्वात् ॥ स्वैरश्च स्वैरी च अक्षौहिणी च स्वैरस्वैर्यक्षौहिणी तस्याम् । स्त्र ईरिक् गतिकम्पनयोः, घञ् । स्वस्य ईरः स्वैरः, स्वेनेरितुं शीलमस्येति स्वैरी । ' अजातेः शीले ' णिन् , स्वैरशब्दान्मत्वर्थीयेनैव इना सिद्धे स्वैरिन् ग्रहणं ताच्छीलिकेऽपीरिन्शब्दे ऐत्वार्थम् । स्वैरीति नामग्रहणात् 'नामग्रहणे लिङ्गविशिष्टस्यापि ग्रहणमि 'ति न्यायेन नाममात्र निर्देशे स्त्रीत्वादिलिङ्गविशिष्टमपि नाम ग्राह्यमित्यर्थकेन वैरिणीत्यपि भवति । ऊह वितर्के ऊहनमूहः, ऊहोऽस्यास्तीति ऊहिनी । अतोऽनेक ' इति इन्, स्त्रियां ङीः । अक्षाणामूहिनी अक्षौहिणी, परिमाणविशेषविशिष्टा सेनेत्यर्थः, 'पूर्वपदस्थादि 'ति नस्य णः। अक्षशब्दस्य ऊहशब्देन समासं कृत्वा इन् प्रत्यये अक्षोहिणीत्येव सिद्ध्यति, न त्वौत् , अन्तरङ्गेण गुणेन बांधात्, अपवादभूतस्याप्यस्य सूत्रस्य अक्षौहिणीत्यत्र चरितार्थ. त्वात् , यद्यपवादोऽन्यत्र चरितार्थस्तर्हि परान्तरङ्गाभ्यां बाध्यत इति न्यायात् ॥ नि, युजंपी योगे, नियोजनं नियोगः, घञ् , नियोगोऽवधारणम् । नियोगो व्यापारः इति केचित् , तन्न, यदैव पूर्वे ज्वलने शरीरम् , ममैव जन्मान्तरपातकानामित्यादिप्रयोगविरो. धात् । न नियोगोऽनियोगस्तस्मिन् , अनवक्लप्तिरनिश्चय इति यावत् । लुग, एवे सप्तमी ।। इदम् , अस्मिन्निह । ष्ठां गति