________________
२७
द्वितीयपादः ] अवरिपरिष्कारसहितायाम् । नाम्नि वा ॥१०॥ उपसर्गस्थस्यावर्णस्य ऋकारादौ नामावयवे धातौ परे ऋता सह आर् वा स्यात् । प्रार्षभीयति, प्रर्षभीयति ॥ लत्याल्वा ॥११॥ उपसर्गावर्णस्य लकारादौ नामावयवे धातौ परे लता सह आल्वा स्यात् । उपाल्कारीयति, उपल्कारीयति ॥ ऐदौत् सन्ध्यक्षरैः ॥१२॥ अवर्णस्य सन्ध्यक्षरैः परैः सह ऐ औ इत्येतौ स्याताम् । तवैषा, खट्वैषा, तवैन्द्री, सैन्द्री, तवौदनः, तवौपगवः ।। मर्थम् , तेने होतरत्र च सूत्रयोहस्वो बाध्यते । सर्वापवादोऽयम् ।। नाम्नि, वा ॥ पूर्वसूत्रं सम्बध्यते । ऋकारादिधातोः नाम्ना सह सामानाधिकरण्येन विशेषणासम्भवादवयवद्वारेण विशिनष्टि-ऋकारादौ नामावयवे धातौ परे इति । ऋषभमिच्छति ऋषभीयति, प्र ऋषभीयति, अनेनाऽऽर् , पक्षे ' अवर्णस्ये' त्यर् । ह्रस्वमपि केचि. दिच्छन्ति, तन्मते प्र ऋषभीयति ॥ लति सप्तमी, आल्, वा । उपसर्गस्य, नाम्नि, इति पदद्वयमनुवर्तते । लुकारमिच्छति लकारीयति, उप लकारीयति उपाल्कारीयति । पक्षेऽल , केचिन्मते हस्वश्च । अलोऽपवादोऽयम् ॥ ऐच्च औच ऐदौत् , सन्धावक्षराणि सन्धिरूपाण्यक्षराणि वा सन्ध्यक्षराणि तैः । तव एषा, 'ऋत्यारुपसर्गस्ये'ति सूत्रेणोपसर्गस्येति नानुवर्तते, 'अपेक्षातोऽधिकार' इति न्यायात् , अन्यथाऽनुपसर्गस्याकारस्यैत्वं न स्यात् । अत्राकारैकारयोः स्थानिनोरंदौल्लक्षणकार्यद्वयमध्ये किं कार्यमित्याशङ्कायां । आसन्न ' इति परिभाषासूत्रं निर्णायकतया प्रवर्तते । तत्र स्थानादिभिरासन्नः ऐत्, अनासन्नः . औत् , तयोः प्रसङ्गे आसन्न एव भवतीति ऐत्वम् । नात्र यथासङ्घयपरिभापया निर्वाह स्थानीभूतसन्ध्यक्षराणां चतुःसङ्ख्याकत्वाद्विधेयस्य च द्वित्वेन समत्वाभावात् । खटा एषा, इन्द्रो देवताऽस्याः सा ऐन्द्री, तव ऐन्द्री, सा ऐन्द्री, तव ओदनः । उप समीपे गावो यस्य सः