SearchBrowseAboutContactDonate
Page Preview
Page 65
Loading...
Download File
Download File
Page Text
________________ २६ सिद्धहेमलघुवृत्तौ [प्रथमाध्यायस्थ नार्णम् , कम्बलार्णम् , वत्सरार्णम् , वत्सतार्णम् ॥ ऋते तृतीयासमासे ॥८॥ अवर्णस्य ऋते परे तृतीयासमासे ऋता सह आर स्यात् । शीतार्तः । तृतीयासमास इति किम् ? परमतः । समास इति किम् ? दुःखेनतः ॥ ऋत्यारुपसर्गस्य ॥९॥ उपसर्गस्थस्यावर्णस्य ऋकारादौ धातौ परे ऋता सह आर स्यात् । प्रार्च्छति, परार्च्छति ।। यात् । सोऽयमपवादः कचित्स्थानिविशेषात् , कचिन्निमित्तविशेषात् , कचिदुभयविशेषात् , क्वचिदर्थान्तरविशेषाच्च । अत्र स्थानि. निमित्तोभयविशेषादपवादः । पाणिनीयाः वत्सरशब्दस्य ऋणशब्देन आरं नेच्छन्ति । केचिद्वत्सशब्दमपि पठन्ति ॥ ऋते, समसनं समासः, तृतीयया समासः, तस्मिन् । अवर्णस्य, आरित्यनुवर्तेते । शीतेन ऋतः शीतातः, शीत ऋत इति ह्रस्वो-पि । परमश्चासौ ऋतश्च परमर्तः, अत्र तृतीयासमासाभावादवर्णस्येत्यनेन अरेव : भवति । दुःखेनत इत्यत्र तु समास एव न, अतो नार् किन्तु अरेव । अर एवायमपवादः ॥ ऋति सप्तमी, आर्, उपसृजति धात्वर्थविशेषम् , उपसर्जनमिति वा उपसर्गस्तस्य । अवर्णस्येत्यनुवर्तते, एवमग्रेऽपि । क्रियायोगे एव उपसर्गत्वादुपसर्गग्रहणबलेन धातोराक्षेपादाह-ऋकारादौ धाताविति । प्र ऋच्छति, ऋच्छ गतौ, ' येन धातुना युक्ताः प्रादयस्तं प्रत्येवोपसर्गसंज्ञा ' तेनेह न । प्रगत ऋच्छकोऽस्मादिति प्रछको देशः । अत्र हि प्रस्य गमिना सम्बन्धो न ऋच्छिना, अतः गर्मि प्रत्येव प्रस्योपसता । न्यायस्यास्य ज्ञापकमुपसर्गस्येत्युक्तिरेव, अन्यथा प्रार्च्छतीत्यादिवत् प्रर्च्छक देश इत्यादावपि प्राप्तस्याऽऽरः अभीष्टत्वे ऋत्यार् प्रादेरित्येवोच्येत । उपसर्गस्येति गुरुतरनिर्देशाच्च प्रर्छक इत्यादी आनिषेध इष्ट इति ज्ञायते, स च निषेधो नोक्तन्यायमन्तरेणेति । आरिति वर्तमाने पुनराम्रहणमारेव यथा स्यादित्येव
SR No.023395
Book TitleSiddha Hem Llaghu Vrutti Avchuri Parishkar
Original Sutra AuthorN/A
AuthorJitendravijay
PublisherRanjanvijay Jain Pustakalay
Publication Year2007
Total Pages470
LanguageSanskrit
ClassificationBook_Devnagari
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy