________________
द्वितीयपादः ] अवचूरिपरिष्कारसहितायाम् । २५ इति दीर्घः स्यात् । ऋषभः, होतकारः॥ अवर्णस्येवर्णादिनैदोदरल्॥६॥ अवर्णस्य इउऋलवर्णैः सह यथासंख्यं एत् ओत् अर अल् इत्येते स्युः । देवेन्द्रः, तवेहा, मालेयम् , सेक्षते, तवोदकम् , तवोढा, तवर्षिः, तवारः, महर्षिः, सर्कारः, तवल्कारः, सल्कारेण ॥ ऋण प्रदशार्णवसनकम्बलवत्सरवत्सतरस्यार।।७।। प्रादीनामवर्णस्य ऋणे परे ऋता सह आर् स्यात् । प्रार्णम् , दशार्णम् , ऋणार्णम् वसषष्ठी स्थाने योगा भवति । तथा चेवर्णादिना सहितस्यावर्णस्य स्थाने एकारादयो भवन्तीति सूत्रार्थः। यथासङ्ख्यमिति तु 'यथासङ्ख्यमनुदेशः समानामिति समसम्बन्धी विधिः यथासङ्घयं भवतीत्यर्थकान्यायात् । देवानामिन्द्रः देवेन्द्रः, अत्र 'वर्णग्रहणे जातिग्रहणमिति न्यायेनावर्णेवर्णादिपदेन अत्वेत्वादिजात्यवच्छिन्नानां यथायोगमष्टादशभेदानां ग्रहणमित्याशयेनोदाहृतं तवेहा मालेयमित्यादि । युष्मच्छब्दस्य 'तव मम ङसे' ति तव, ईहि चेष्टायाम् , ईहनमीहा । मांक माने मीयते इति माला, माला इयम् । सा, ईक्षि दर्शने, 'वर्तमाने ते । तव उदकम् । तव, वहीं प्रापणे उह्यते स्म 'कक्त. वतू' ऊढा । तव ऋषिः । तव ऋकारः। महांश्चासौ ऋषिश्च । सा ऋकारः । तव लकारः । सा लकारेणेति सल्कारेण ॥ ऋणे, प्रश्च दशश्च ऋणञ्च वसनञ्च कम्बलञ्च वत्सरश्च वत्सतरश्च तस्य, आर् ॥ अवर्णस्येत्यनुवर्तते । प्रकृष्टं ऋणं प्राणम् । दशानां ऋणं दशार्णम् । ऋणस्याऽवयवतया तत्सम्बन्धि ऋणं ऋणार्णम् । वसनस्य कम्बलस्य वत्सरस्य वत्सतरस्य वा ऋणम् । समानानामिति बहुवचनस्य व्याप्त्यर्थत्वेनोक्तत्वादिहोत्तरत्र पूर्वत्र च ह्रस्वोऽपि भवति । तेन प्र ऋणम् , दश ऋणम , इत्याद्युदाहरणान्यपि सिद्ध्यन्ति, पक्षे अर् प्राप्तावनेनाऽऽर् । अर एवायं बाधकः, 'येन नाप्राप्ते यो विधिरारभ्यते स तस्यैव बाधकः' इति न्या