SearchBrowseAboutContactDonate
Page Preview
Page 63
Loading...
Download File
Download File
Page Text
________________ ૨૪ सिद्धहेमलघुवृत्तौ [ प्रथमाध्यायस्य बाल ऋश्यः, ऌ ऋषभः, होतृ लकारः । पक्षे बालवर्थः ॥ लत ऋलृ ऋलुभ्यां वा || ३ || ऌत ऋता ऌता च सह यथासंख्यं ऋलृ इत्येतौ वा स्याताम् । ऋता ऋकारः, पक्षे ऌ ऋकारः ऋकारः । ऌता ऌकारः, पक्षे ऌ ऌकारः लृकारः ॥ ऋतो वा तौ च||४|| ऋत ऋऌभ्यां यथासंख्यं ऋलृ इत्येतौ वा स्याताम्, तौ च ऋकारऌकारौ ऋलभ्यां सह वा स्याताम् । ऋता- पितृषभः, पक्षे पितृ ऋषभः, पितृषभः । लता - होल्लकारः, पक्षे होतृ लकारः, होतृकारः । तौ च पितृषभ: होल्लकारः, पक्षे पूर्ववत् ॥ ऋस्तयोः ||५|| तयोः पूर्वस्थानिनोर्लकारऋकारयोर्यथासंख्यं ऋलृभ्यां सह ऋ होतृ लकारः । अत्र वाग्रहणं ' सर्वं वाक्यं सावधारणमि 'ति न्यायं सूचयति, अन्यथा ऋलति ह्रस्वः इत्युक्तावपि ह्रस्वस्य तदभावस्य च सिद्धेर्वाग्रहणं व्यर्थं स्यात् ॥ लुतः षष्ठी, ऋश्च लुश्च ऋलृ, ऋच ऌच ऋऌनी ताभ्याम्, वा ।। लु ऋकारः, अत्र लुइत्येतस्य ऋता सह ऋकारः, पक्षे ह्रस्वत्वेन ऌकारः । उत्तरेण चं 'ऋस्तयोरि' त्यनेन ऋकारः । ऌता, ऌ ऌकारः लृकारः, पक्षे प्राग्वत् । ऋ इति स्वरसमुदायो स्वरव्यञ्जनसमुदायो वर्णान्तरं वा ॥ ऋतः षष्ठी, वा, तौ प्रथमा च ॥ ऋलुभ्यामित्यनुवर्तते । तच्छब्देन ऋकारलकारयोः परामर्शः पितुः ऋषभः पितृषभः पितृषभः, पक्षे पितृऋषभः । ' समानानामि 'ति दीर्घः, पितृषभः । होतुः ऋकारः, होतूलकारः, होत्लुकारः। पक्षे ह्रस्वत्वं दीर्घश्च । पूर्ववदिति, ह्रस्वत्वं दीर्घत्वश्च ॥ ऋः प्रथमा, तयोः षष्ठी ॥ ऋलभ्यामिति सम्बध्यते । अनेन ऋकारऋकारयोः, ऋकारऌकारयोश्च ऋकारो भवति, यथा ऋ ऋषभः ऋषभः, होतुः लकारः होतकारः ॥ अकारेणोपलक्षितो वर्णस्तस्य इवर्ण: आदिर्यस्य स इवर्णादिः तेन, एच्च ओच्च अर् च अल् च एदोदरल् ॥ सर्वोऽपि द्वन्द्वो विभाषया एकवद्भवति । सम्बन्धविशेषेऽनिर्धारिता /
SR No.023395
Book TitleSiddha Hem Llaghu Vrutti Avchuri Parishkar
Original Sutra AuthorN/A
AuthorJitendravijay
PublisherRanjanvijay Jain Pustakalay
Publication Year2007
Total Pages470
LanguageSanskrit
ClassificationBook_Devnagari
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy