________________
द्वितीयः पादः ।
समानानां तेन दीर्घः ॥ १ ॥ समानानां तेन समानेन परेण सह दीर्घः स्यात् । दण्डाग्रम् दधीदम्, नदीन्द्रः ॥ ऋलुति ह स्वो वा ॥ २ ॥ ऋति ऌति च परे समानानां ह्रस्वो वा स्यात् ।
,
समानं तुल्यं मानं परिमाणं येषान्ते समानास्तेषाम् तेन, दीर्घः ॥ तच्छब्देन समानस्य परामर्शः । दधि शीतमित्यत्र न दीर्घः, शकारस्याऽऽस्यप्रयत्नभेदेन समानत्वाभावात् । परेण सहेति, अत्र पुत्रेण सह स्थूल इतिवन्न द्वयोः पृथक् पृथग्दीर्घता, किन्तु अजाक्षीरेण सहौषधं पिवेदितिवद्वयोरेक एवं दीर्घः । अत्र बहुवचनं व्यात्यर्थम्, तेनोत्तरसूत्रेण ऋलृतोरपि ऋति ह्रस्वो भवति । कॄ ऋषभः, होतृ लकारः । अन्यथा ' ऋस्तयोरि' ति परत्वात् ऋइत्ये । स्यात् । समानानामिति निर्देशात् ' अपेक्षातोऽधिकार इति न्यायो निश्चीयते । न्यायानामिव कस्यचित्पदादेरधिकारस्य प्रवृत्तौ निवृत्तौ वा न किञ्चिज्ज्ञापकं विद्यते, किन्त्वपेक्षैव तत्र नियामिकेति न्यायतात्पर्यम् । समानानामिति हि ' ह्रस्वापश्चे' त्यनेन भवति, सूत्रमिदन्तु तदा प्रवर्त्तेत यदा ' आमो नाम्वे ' ति पूर्वसूत्रादाम इति नामिति च पदे तत्रानुवर्त्तेयाताम् । तदनुवृत्तिचैतन्यायादेव प्रसिद्ध्यति, नत्वन्यथा ज्ञापकान्तराभावादिति || ऋश्च लञ्च ऋलत् तस्मिन् ह्रस्वः, वा ॥ समानानामित्यनुवर्तते । ह्रस्वोऽपदे वे ' त्येव सिद्धाववर्णार्थं पदार्थञ्च वचनम् । बलति प्राणिति मातुः स्तन्येनेति बालः, , बालश्वासौ ऋश्यश्च बाल ऋश्यः, ह्रस्वकरणसामर्थ्यादेव कार्यान्तरं न भवति । अत एव ह्रस्वस्यापि ह्रस्वः क्रियते । पक्षे 'अवर्णस्ये'त्यर्, लुः ऋषभः ऌऋषभः । होतुः लुकारो
6
"
"