________________
प्रथमपादः ]
अवचूरिपरिष्कारसहितायाम् ।
२१
"
वन्तं च संख्याकार्यभाक् स्यात् । कतिकः यावत्कः ॥ बहुगणं भेदे ||४०|| बहुगणशब्दौ भेदवृत्ती सङ्ख्यावत् स्याताम् । बहुकः, गणकः । भेद इति किम् ? वैपुल्ये सङ्घ च मा भूत् ॥ कसमासेऽध्यर्द्धः ||४१ || अध्यर्द्धशब्दः के प्रत्यये समासे च विधेये सङ्ख्या
'इच्चापुंसोऽनित्क्याप्परे' इति सूत्रेण इकाराप्राध्या 'अस्यायत्तत्क्षिपकादीनामिति सूत्रेण यत्तदोरकारस्य इत्वप्रतिषेधः सार्थको भवति, अन्यथा ककारस्य प्रकृत्यवयवत्वे तु इत्वप्राप्तिरेव न स्यात् ।। इतिश्च अतुश्च डत्यतु, सख्येव सङ्ख्यावत् 'स्यादेरिवे' इति वत्प्रत्ययः । अव्ययम् ॥ अत्र डतिप्रत्ययः तद्धितविहित एव गृह्यते, अनुसाहचर्यात्, न तु धातोर्विहितस्य डतेः । डत्यत्वोः केबलयोः सङ्ख्यावत्संज्ञाविधाने फलाभावात् संज्ञाविधौ प्रत्ययग्रहणे तदन्तग्रहणं नास्तीति परिभाषामुपेक्ष्य तदन्तविधेरङ्गीकारेणाह - डत्यन्तमत्वन्तः चेति । किं सङ्ख्या मानमेषां कति 'यत्तत्किमः सङ्ख्याया 'डतिर्वा ' इति डतिप्रत्ययः । कतिभिः क्रीतः कतिकः । 'सङ्ख्याडतेश्चेति कः । यत्परिमाणमेषां यावन्तः, 'यत्तदेतदो डावादि:' इति अतुप्रत्ययः । यावद्भिः क्रीतः यावत्कः || बहुच गणश्च बहुगणं भेदे || भेदो नाम नानात्वमेकत्वप्रतियोगि । बहुभिः क्रीतो बहुकः । गणैः क्रीतो गणकः, 'सङ्ख्याडतेश्च कः' । बहुगणशब्दौ नियतविषयपरिच्छेदकारणे न भवत इति सङ्ख्याप्रसिद्धेरभावात् वचनम् । एवञ्चार्थान्तरवाचित्वे सति बहुत्ववाचिनो यदि सङ्ख्याकार्यं तर्हि बहुगणयोरेवे ति नियमेन भूर्य्यादीनां वैपुल्याद्यर्थान्तरवाचिनां न सङ्ख्याकार्यम् || कश्च समासश्च कसमासम् तस्मिन् । अधिकमर्थं यस्यासौ अध्यर्धः || अध्यर्द्धन क्रीतं अध्यर्द्धकम् । 'सङ्ख्याडतेः ' कः । अ, ध्यर्द्धेन शूर्पेण क्रीतं अध्यर्द्धशूर्पम् । 'मूल्यैः क्रीते ' इकण्प्रत्ययः । 'अनाम्न्यद्विरि'ति तस्य लोपः । अत्र सङ्ख्यासमाहारे द्विगुः ॥
T:
।
9