________________
२०
सिद्धमलघुवृत्तौ
[ प्रथमाध्यायस्य
रः सो न स्यात् ॥ अप्रयोगीत् ||३७|| इह शास्त्र उपदिश्यमानो वर्णस्तत्समुदायो वा प्रयोगेऽदृश्यमान इत् स्यात् । एधते, यजते, चित्रीयते ॥ अनन्तः पञ्चम्याः प्रत्ययः ।। ३८ ।। पञ्चम्यर्थाद् विहितोऽन्तशब्दाऽनिर्दिष्टः प्रत्ययः स्यात् । “ नाम्नः प्रथमैकद्विबहौ " । वृक्षः । अनन्त इति किम् ? आगमः प्रत्ययो मा भूत् ॥ डत्यतु संख्यावत् ॥ ३९ ॥ डत्यन्तम
प्रयोगः, 'भावाकर्त्रीर्घम्' । प्रयोगोऽस्यास्तीति प्रयोगी, 'अतोऽनेकस्वर' इन् । न प्रयोग अप्रयोगी । ईणूक गतौ, एति गच्छतीति इत् किपू, अप्रयोगीत् ॥ अप्रयोगीति संज्ञिनिर्देशः, इदिति संज्ञानिर्देशः । इत्संज्ञाविधानात् प्रयोगाभावः । वर्णस्तत्समुदायो वेति, कस्मैचित् कार्यार्थमुच्चार्यमाण एकवर्णो वा द्वित्र्यादिवर्ण समुदायो वा प्रयोगकालेऽदृश्यमान इत्संज्ञो भवतीत्यर्थः । एधीत्यत्रैकवर्ण इकारः, - यज इत्यत्र ईकारानुस्वारौ, चित्रङ्, अत्राकारङकारौ । एधि वृद्धौ, वर्तमाने ते, कर्त्तरि शव्, इदित्वादात्मनेपदम् । यजीं देवपूजायाम्, ईदित्वात् फलवत्याऽऽत्मनेपदम् । चित्रङ् आश्चर्ये, चित्रमाश्वर्यं करोति, 'नमो वरि० ' क्यनि ई, ङित्त्वादात्मनेपदम् ॥ न विद्यतेऽन्तः - अन्तशब्दो वाचको यस्य सः अनंतः । पञ्चम्याः, 'स्त्रीदूतः,' दास् । प्रति इंणूक गतौ प्रतीयतेऽर्थो येनासौ प्रत्ययः ॥ सूत्रे पञ्चमीति प्रत्ययोऽभिधीयते स च प्रत्ययः न प्रकृतिमन्तरेणेति, प्रकृतेराक्षेपादाह पञ्चम्यर्थादिति पञ्चम्यन्ताद्विहित इत्यर्थः । आगमः प्रत्ययो मा भूदिति, आगमस्य प्रत्ययत्वे हि अनन्ददित्यादौ नागमे कृते नन्द इत्यस्य धातुत्वाभावेनाऽडागमो न स्यात् । न च तन्मध्यपतितः तद्ब्रहणेन गृह्यते इति परिभाषया नागमविशिष्ट - स्यापि धातुत्वमक्षतमिति वाच्यम्, तथा सति इदमेवान्तग्रहणमुक्तपरिभाषाया अनित्यत्वं ज्ञापयति । अत एव यका सका इत्यादौ