SearchBrowseAboutContactDonate
Page Preview
Page 58
Loading...
Download File
Download File
Page Text
________________ प्रथमपादः] अवचूरिपरिष्कारसहितायाम् । १९ विभक्तयन्ताभाः, थमवसानतसादिप्रत्ययान्ताभाश्वाऽव्ययानि स्युः । अहंयुः, अस्तिक्षीरा गौः, कथम् , कुतः ॥ वत्तस्याम् ।। ३४ ॥ वत्-तसि-आम्प्रत्ययान्तमव्ययं स्यात् । मुनिवद् वृत्तम् , उरस्तः, उ. चैस्तराम् ॥ त्वातुमम् ॥३५॥ क्त्वा-तुम्-अम्प्रत्ययान्तमव्ययं स्यात् । कृत्वा, कर्तुम् , यावज्जीवमदात् ॥ गतिः ॥ ३६ ।। गतिसंज्ञमव्ययं स्यात् । अदःकृत्य । “ अतः कृकमि" इत्यादिना स्यात् । आस आह वर्तते, न वर्तते, याति, न याति, पश्य पश्यत आतंक इति तिवादिविभक्त्यन्तप्रतिरूपकाः ॥ वच्च तसिश्च आम् च वत्तस्याऽऽम् । 'अनतो' बुधिं मनिं च ज्ञाने, मन्यते संसाराऽऽसारतामिति मुनिः । मुनेरह मुनिवद् , 'तस्याहे' क्रियायां वत् अव्ययम् । उरसा एकदिक् उरस्तः, 'यश्वोरसः' तस् । इदमनयोर्मध्येऽतिशयेनोचैरित्युच्यैस्तराम् । 'द्वयोर्विभज्ये' तरप्, 'किन्त्याये' इति आम् । अत्र च वत्तसि साहचर्यात् तद्धितस्याऽऽमो ग्रहणं नेतरस्य । उपलक्षणं चैतत्तेन 'धातोरनेकस्वरात्' इत्यादिना विहितस्याऽऽमो ग्रहणं, तथा च पाचयांचकृषा इत्यादावनुस्वारसिद्धिः । ' साहचर्यात् सह. शस्यैवे'ति न्यायस्याऽनित्यत्वात् ॥ क्त्वा च तुम् च अम् च क्त्वातुमम् । 'अनतो' ॥ अमिति णमुख्यमोरुत्सृष्टानुबन्धयोहणं न द्वितीयैकवचनस्य, क्त्वातुम्साहचर्यात् , तथा च 'साहचर्यात् सहशस्यैव' इति न्यायः सिद्ध्यति । डुकृञ् करणे, करणं पूर्वं कृत्वा, 'प्राक्काले क्त्वा,' करणायेति कर्तुं क्रियायां क्रियार्थायां तुमण् । जीवप्राणधारणे, यावत्कालं जीव्यते यावज्जीवं, यावतो विन्दे' तिणम् , अदात् ॥ गम्लं गतौ, गमनं गतिः, स्त्रियां क्तिः, 'यमिरमिनमि 'म् लोपः । अदः करणं पूर्व अदःकृत्य, क्त्वा । ' अननः क्त्वो यप्'। अत्राव्ययत्वे ' अतः कृकमिकंसे'ति इति सकाराभावः । ‘अग्रहानुपदेशेंतरदः' इति गतिसंज्ञा ज्ञातव्या ॥ युजंपी योगे, प्रयोजनं
SR No.023395
Book TitleSiddha Hem Llaghu Vrutti Avchuri Parishkar
Original Sutra AuthorN/A
AuthorJitendravijay
PublisherRanjanvijay Jain Pustakalay
Publication Year2007
Total Pages470
LanguageSanskrit
ClassificationBook_Devnagari
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy