________________
सिद्धहेमलघुवृत्तौ [प्रथमाध्यायस्य स्वर, अन्तर, प्रातरित्यादि ॥ चाऽऽदयोऽसत्त्वे ॥३१।। अद्रव्ये वर्तमानाश्चादयोऽव्ययानि स्युः । वृक्षश्चेत्यादि । अधण्तस्वाद्याशसः ॥३२॥ धण्वर्जास्तस्वादयः शस्पर्यन्ता ये प्रत्ययास्तदन्तं नामाव्ययं स्यात् । देवा अर्जुनतोऽभवन् , ततः, तत्र, बहुशः । अधणिति किम् ? पथिद्वैधानि ॥ विभक्तिथमन्ततसाद्याभाः ॥३३॥ 'अतोऽति' 'अवर्णस्य एदोतः'। सतो भावः सत्त्वम् । भावे त्वतल , न सत्वमसत्त्वं तस्मिन् । लिङ्गसङ्ख्याद्याश्रयो द्रव्यं सत्त्वम् । वृक्षस् च 'चटते सद्वितीये' ॥ न धण अधण् । तसुरादिर्यस्य तत् । अधण् च तत् तस्वादि च अधण्तस्वादि, आ, शसः पंचमी ॥ अर्जुनस्य पक्षेऽर्जुनतः व्याश्रये तसुः, अव्ययम् । भू सत्तायाम् , ह्यस्तनी अन् , 'अड्धातो' रडागमः, कर्तरि शव , नामिनो गुणः, 'ओदौतोऽव्' इति अभवन् । तनूयी विस्तारे, तनोति परोक्षप्रतीतिमिति तद्, तस्मादिति ततः, 'किमयादिसर्वादि' तस्प्रत्ययः । तस्मिन् तत्र 'सप्तम्या'स्वप् । बहुभिः क्रीतो बहुशः, 'बह्वल्पार्था' इति शस् । द्वौ प्रकारौ एषां तानि द्वैधानि, 'तद्वति' धण् । पथां द्वैधानि पथिद्वैधानि ॥ थम् अन्ते येषान्ते थमन्ताः । तसादिर्येषां ते तसादयः । थमन्ताश्च ते तसादयश्च । विभक्तयश्च थमन्ततसादयश्च । विभक्तिथमन्ततसादीना. मिवाऽऽभा छाया येषान्ते । अहमस्यास्तीति अहंयुः, ऊर्णाहंशुभम्मे' इति युस् । अस्ति विद्यमानं क्षीरं यस्याः सा अस्तिक्षीरा गौः । अत्राऽस्तिशब्दस्याऽव्ययत्वात् 'एकार्थं चाऽने कं चे 'ति समासः । कस्मात् कुतः । 'किमयादीति' तस्, केन प्रकारेण कथम् । अहं कृतं । येन तेन चिरेण अचिरेणान्तरेण । ते मे चिराय अह्राय । चिरात् अकस्मात् । चिरस्याऽन्योन्यस्य मम । एकपदे अग्रे हेतौ रात्रौ. वेलायां मात्रायामिति प्रथमादिविभक्त्यन्तप्रतिरूपकाः । अस्ति नास्ति अस्ति विद्यते भवति । एहि ब्रूहि मन्ये अस्तु भवतु पूर्यते