SearchBrowseAboutContactDonate
Page Preview
Page 56
Loading...
Download File
Download File
Page Text
________________ प्रथमपादः] अवचूरिपरिष्कारसहितायाम् । १७ मिति किम् ? अहन् , वृक्षान् , साधुर्धर्मं ब्रूते ॥ शिघुट् ॥२८॥ जस्शसादेशः शिघुट् स्यात् । पद्मानि तिष्ठन्ति पश्य वा ॥ पुंस्त्रियोः स्यमौजम् ॥२९॥ स्यादयः पुंस्त्रीलिङ्गयोर्घटः स्युः । राजा, राजानौ, राजानः, राजानम् , राजानौ, सीमा, सीमानौ, सीमानः, सीमानम् ॥ स्वरादयोऽव्ययम् ॥ ३० ॥ स्वरादयोऽव्ययानि स्युः । सम्भवति, तथापि ब्रूत इत्यस्यैव विभक्त्यन्तत्वात् साधुधर्मं ब्रूते इति समुदायस्य च विभक्त्यन्तत्वाभावात् नामसंज्ञाप्राप्तौ स्यादिविभक्तिः स्यादतो वाक्यवर्जनम् , एतद्वर्जनादेव समासादिसमुदायस्य नामत्वं भवति, यथा चित्रगुः ॥ शिर्घट, पद्म जस्, ‘ नपुंसकस्य शिः' 'स्वराच्छौ' नोऽन्तः 'निदीर्घः' । ष्ठां गति निवृत्ती, षः सः निमित्तापाये इति न्यायात ठः थः, अन्ति । 'श्रौतिकृवु' इति तिष्ठादेशः । 'लुगस्या' अलोपः । दृशं प्रेक्षणे, पश्चमी हि, पश्यादेशः । अतः प्रत्यया' दिति हिलोपः । जसशसादेश इति, अत्र जसूसाहचर्यात् स्यादेरेव शसो ग्रहणं न तु तद्धितशसः, तेन एकशो ददातीत्यादौ न शसो घुट्संज्ञा ॥ पुमांश्च स्त्री च पुस्त्रियौ तयोः । अलौकिकोऽयं निर्देशोऽन्यथा स्त्रीपुंसयोरिति स्यात् । औश्च औश्च आवौ, सिश्च अमच आवौ च जश्च स्यमौजस्, स्यमौजमिति व्युत्क्रमाऽभिधानमौकारद्वयस्य ग्रहणाय । राजसि, 'निदीर्घः' । दीर्घङया ' ' नाम्नो नो'। स्यति सन्देहमिति सीमा, इदं स्त्रीलिङ्गस्योदाहरणम् ॥ स्वरादिर्येषान्ते स्वरादयः । विपूर्वः इंण्क् गतौ न व्येति, न क्षयं यातीत्यव्यम् , 'लिहादिभ्योऽच्' ।। सदृशं त्रिषु लिङ्गेषु सर्वासु च विभक्तिषु' । वचनेषु च सर्वेषु यन्न व्येति तदव्ययम् ।। स्वरिति, स्वर्गे परलोके च । अन्तरिति, मध्ये । प्रातरिति, प्रत्यूषे ॥ चादिर्येषान्ते । 'जस्येदोत्' 'एदैतोऽय' 'सो रुः'
SR No.023395
Book TitleSiddha Hem Llaghu Vrutti Avchuri Parishkar
Original Sutra AuthorN/A
AuthorJitendravijay
PublisherRanjanvijay Jain Pustakalay
Publication Year2007
Total Pages470
LanguageSanskrit
ClassificationBook_Devnagari
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy