________________
सिद्धहेमलघुवृत्तौ . [प्रथमाध्यायस्य सुप्स्यामहिपर्यन्ता विभक्तयः स्युः ॥ तदन्तं पदम् ॥२०॥ स्याद्यन्तं त्याद्यन्तं च पदं स्यात् , धर्मो वः स्वं ददाति, नः शास्त्रम् ॥ नाम सिदव्यञ्जने ॥२१॥ सिति प्रत्यये यवर्जव्यञ्जनादौ च परे पूर्व नाम पदं स्यात् , भवदीयः, पयोभ्याम् । अयिति किम् ? वाचित्वेन पूर्वाचार्यसम्मतानुबन्धव्यवस्थावतां स्यादीनां तिवादीनाश्च विभक्तिसंज्ञा प्रकाशयति-स्यादय इति ॥ सा विभक्तिरन्ते यस्य तत्तदन्तम् , पदिच् गतौ, पद्यते गम्यते कारकसंसृष्टोऽर्थोऽनेनेति पदम् ॥ ननु 'प्रत्ययः प्रकृत्यादेः' इति परिभाषासूत्रेण तदन्तविधेर्लाभात् 'सा पद'मित्येव सूत्रं कर्त्तव्यं, न तु तदन्तं पदमिति शङ्कायामाह-धर्मो वः स्वं ददाति, नः शास्त्रमिति, अयं भावः-यदि उक्तपरिभाषया तदन्तस्य लाभस्तर्हि 'स्त्यादिविभक्तिः' इत्यत्रापि तदन्तलाभेन स्त्याद्यन्तस्य विभक्तिसंज्ञा प्राप्नोति, तथा च सति धर्मः ददाति इत्यादीनां स्त्याद्यन्तानां विभक्तिसंज्ञतया पदसंज्ञाऽभावाद्युष्मदस्मदोः वस्नसादेशौ न स्याताम् , अतः अन्तग्रहणं कृतम् , तथा च संज्ञाविधौ प्रत्ययग्रहणे तदन्तग्रहणं नास्तीति सूचितम् । एवञ्च ‘संज्ञोत्तरपदाधिकारे प्रत्ययग्रहणे प्रत्ययमात्रस्यैव ग्रहणं न तदन्तस्य' इति न्यायस्यान्तपदेन सूचनं भवति । फलश्च स्त्यादिविभक्तिरित्यादावन्तग्रहणाभावः ॥ नमति धातवे इति नाम, 'सात्मनात्मनिति' साधुः, स इत् अनुबन्धो यस्यासौ सित् , न य अय, अय् च तद्व्यञ्जनञ्च अय्व्यञ्जनं, सिच्च अय्व्यञ्जनं च सिदव्यञ्जनं तस्मिन् , पदमित्यनुवर्तते । भवतोऽयं भवदीयः, “भवतोरिकणी. यसौ' इतीयस् , अनेन पदत्वात् 'धुटस्तृतीयः' इति तस्य दः । अत्र भवत इति विग्रहान्तर्गतषष्ठीविभक्तिमादाय भवच्छब्दस्य पद. त्वे सिद्धे सिद्हणं व्यर्थ सन्नियमयति, सानुबन्धप्रत्यये परे एव पदसंज्ञा, न तु प्रत्ययान्तर इति, अतः भगवत इदं भागवतमित्या