________________
प्रथमपाद: ]
अवचूरिपरिष्कारसंहितायाम् ।
११
न्तरेण सदृशौ स्थानाssस्यप्रयत्नौ यस्य स वर्णस्तं प्रति स्वः स्यात् । तत्र त्रयोऽकारा उदाचानुदात्तस्वरिताः प्रत्येकं सानुनासिक - निरनुनासिकभेदात् षट् । एवं दीर्घप्लुतावित्यष्टादश भेदा अवर्णस्य, ते सर्वे कण्ठस्थाना विवृतकरणाः परस्परं स्वाः । एवमिवर्णास्तावन्तस्तालव्या विवृतकरणाः खाः । उवर्णा ओष्ठ्या विवृतकरणाः स्वाः । ऋवर्णा मूर्द्धन्या विवृतकरणाः परस्परं स्वाः । ऌवर्णा दन्त्या विवृतकरणाः परस्परं स्वाः । सन्ध्यक्षराणां ह्रस्वा न सन्ति इति तानि प्रत्येकं द्वादशभेदानि । तत्र एकारास्तालव्या विवृतवराः स्वाः ( ऐकारास्तालव्या अतिविवृततराः स्वाः । ओकारा ओष्ठ्या विवृततराः स्वाः | औकारा ओष्ट्या अतिविवृततराः स्वाः । वर्याः पञ्च पञ्च परस्परं स्वाः । यलवानामनुनासिकोऽननुनासिकश्च द्वौ भेदौ परस्परं स्वौ ॥ स्योजसमौशस्टाभ्यांभिस्ङेभ्याम्भ्यस्ङसिभ्यांभ्यस्ङसोसामूङयोस्सुपां त्रयी त्रयी प्रथमाऽऽदिः || १८ || स्यादीनां प्रत्ययानां त्रयी त्रयी यथासङ्ख्यं प्रथमद्वितीया तृतीयाचतुर्थीपञ्चमीषष्ठीसप्तमी च स्यात् ॥ स्त्यादिर्विभक्तिः ||१९|| 'सू' इति 'ति' इति चोत्सृष्टानुबन्धस्य सेस्तिवश्च ग्रहणम् । स्यादयस्तिवादयश्च सिश्च औश्च जश्च स्यमौजसः । अम् च औश्च शश्च अमौशसः । इत्येवं द्वन्द्वः । ततः स्यौजसश्च अमौशसश्चेत्येवं द्वन्द्वस्तेषाम् । त्रयोऽवयवा यस्याः सा त्रयी, 'द्वित्रिभ्यामयवा, ' वीप्सायां द्वित्वम् । प्रथमा आदिर्यस्याः सा प्रथमादिः ॥ स्यादीनामिति, सिजस्शस् टाडेङसिङ सङिसुप्प्रत्ययेषु इजशटङपा अनुबन्धाः ज्ञेयाः ॥ स्च तिवस्ती, स्ती आदिर्यस्यासौ रत्यादिः विभज्ञो आमर्दने, विभग्यन्ते विभागशः प्रकाश्यन्ते कर्तृकर्मादयोऽर्था अनयेति विभक्तिः || उत्सृष्टानुबन्धस्येति, अनुबध्यते कार्यार्थमुपदिश्यते इत्यनुबन्धः । उत्सृष्टः व्यक्तोऽनुबन्धो येन सः तस्य । सूत्रे आदिशब्दस्य व्यवस्था
-