________________
प्रथमपादः ]
अवचूरिपरिष्कारसहितायाम् ।
१३
वाच्यति ॥ नं क्ये ||२२|| 'क्ये' इति क्यनूक्यङ्क्यषां ग्रहणम्, नान्तं नाम क्ये परे पदं स्यात् । राजीयति, राजायते, चर्मायति ॥ न स्तं मत्वर्थे ||२३|| सान्तं तान्तं च नाम मत्वर्थे परे पदं न स्यात्, यशस्वी, तडित्वान् ॥ मनुर्नभोऽङ्गिरो वति दावणू प्रत्यये परे न पदसंज्ञा । पयसूभ्याम्, 'सोरुः,' घोषवति, उ, अवर्णस्येति ओ । ननु नाम सिद्व्यञ्जने इत्येव सूत्रयतां, किमित्ययग्रहणमिति शङ्कायामाह वाच्यतीति वाचमिच्छति वाच्यति, ‘अमाव्ययात्क्यन्’ तिव् शव् । अत्र यकारे परे वाचः पदत्वप्राध्या चकारस्य कः स्यात्, तद्व्यावृत्त्यर्थं यवर्जनम् । यद्यपि राजीयतीत्यादौ नाम सिद्व्यञ्जने इति पदत्व प्राप्त्या ' नं क्ये ' इति सूत्रं व्यर्थं सत् क्यप्रत्यये परे नकारान्तमेव नाम पदसंज्ञं भवतीति नियमयति तथा च वाच्यतीत्यादौ न पदसंज्ञा प्राप्नोतीति यवर्जनं व्यर्थं, तथापि सत्सु साधु सत्यमित्यादौ पदसंज्ञाव्यावृत्तये यवर्जनं कृतम् ॥ नं क्ये ॥ क्यन्क्यक्यषां ग्रहणमिति, नात्र क्यक्यपोर्ग्रहणं नामाधिकारत्वात् । राजानमिच्छति राजीयति ' अमाव्ययात्क्यन् पदत्वात् क्यनि ईकारः । राजेवाऽऽचरति राजायते, क्यङ् ' दीर्घश्चियङि 'ति दीर्घः | अचर्म चर्म भवति चर्मायति, अत्र चर्मन् शब्दधर्मवदर्थकः, चर्मणः प्रागतत्त्वासम्भवेन व्यर्था घटनात, पदत्वान्नकारलोपः । ' डाच् लोहितादिभ्यः पित्' इति क्यप्, अयिति प्रतिषेधात् पूर्वेणाऽप्राप्ते वचनम् ॥ न स् च तश्च स्तं, मतोरर्थः मत्वर्थः, मत्वर्थोऽस्त्यस्येति मत्वर्थस्तस्मिन् ।। यशोऽस्यास्तीति यशस्वी, 'अस्तपोमायामेध्यस्रजो विन्' इति विन्, 'इन् हन् पूपेति दीर्घत्वम्, तडिद्विद्यते यस्यासौ, 'तदस्या' इति मतुप् । 'मावर्णान्त' इति मस्य अत्र पदत्वनिषेधाद्रेफदकारौ न भवतः । तथा मतोरपि मत्वर्थाऽव्यभिचारान्मत्वर्थशब्देन ग्रहणम् । नाम सिदय्व्यञ्जन
वः,