________________
प्रथमपादः ] अवचूरिपरिकारसहितायाम् । वर्णानामुरः कण्ठः शिरस्तथा । जिह्वामूलं च दन्ताश्च नासिकोष्ठौ च यं वर्ण प्रति तुल्यस्तं प्रति स स्वसंज्ञो भवतीत्यर्थः । तत्रावर्णकवर्गहकारविसर्जनीयाः कण्ठ्याः । इवर्णचवर्गयशास्तालव्याः । उवर्णपवर्गोपध्मानीया ओष्ठयाः । ऋवर्णटवरषा मूर्द्धन्याः । लवर्णतवर्गलसा दन्त्याः। एऐ तालव्यौ कण्ठतालव्यावित्यन्ये। ओऔ ओष्ठयो कण्ठयोष्ठयावित्यन्ये, वो दन्त्योष्ठः, अं इति नासिक्यो वर्णः। अः इति कण्ठ्यः, जिह्वामूलीयो जिह्वयः, ङझणनमाः स्वस्थानना. सिक्यस्थानाः । स्पृष्टं करणं स्पर्शानाम् , स्पर्शा वर्गाः । ईषत्स्पृष्टं करणमन्तस्थानाम् , ईषद्विवृतकरणमूष्मणाम् , उष्माणः शषसहाः, विवृतं करणं स्वराणाम् । स्वरेषु एओ विवृततरौ, ऐऔ अतिविवृत. तरौ । आस्यग्रहणं बाह्यप्रयत्ननिवृत्त्यर्थ, ते हि · आसन्न' इत्यत्रैवोपयुज्यंते, न स्वसंज्ञायाम् । के पुनस्ते बाह्यप्रयत्नाः ? विवारसंवारौ श्वासनादौ घोषवदघोषवन्तावल्पप्राणमहाप्राणावुदात्तानुदात्तस्वरिताः । कथं पुनरेते आस्यबाह्याः स्पृष्टतादयस्त्वान्तराः ? उच्यते, वायुना कोष्ठेऽभिहन्यमानेऽमीषां प्रादुर्भावात् , स्पृष्टतादीनान्तु कण्ठादिस्थानाभिघाते सम्भवात् । तथा च शिष्टाः पठन्ति, नाभिप्रदेशात् प्रयत्नप्रेरितः प्राणो नाम वायुरूवं सङ्क्रामन्नुरःप्रभृतीनामन्यस्मिन्स्थाने प्रयत्नेन विधार्यते, स विधार्यमाणः स्थानमभिहन्ति, तस्मात्स्थानाभिघातात् ध्वनिरुत्पद्यते, सा वर्णश्रुतिः, सः वर्णस्यात्मलाभः । तत्र वर्णध्वनावुत्पद्यमाने यदा स्थानकरणप्रयत्नाः परस्परं स्पृशन्ति तदा स्पृष्टता, ईषत्स्पर्शने ईषत्स्पृष्टता, एवं सामीप्येन संवृतता दूरेण विवृतता च । स्थानं कण्ठादीति, पुद्गलस्कन्धस्य पूर्वरूपपरित्यागेन वर्णरूपताऽऽपत्तिर्यत्र तत्स्थानम् , तच्च स्थानं कण्ठादि, तत्स्थानप्रदर्शकं पाणिनिशिक्षाकारिकामुपन्यस्यति, अष्टा