SearchBrowseAboutContactDonate
Page Preview
Page 47
Loading...
Download File
Download File
Page Text
________________ सिद्धहेमलघुवृत्तौ [प्रथमाध्यायस्य षवान् ॥१४॥ अघोषेभ्योऽन्यः कादिर्वर्णो घोषवान् स्यात् । ग घ ङ, ज झ ञ, ड ढ ण, द ध न, ब भ म, य र ल व, ह ॥ यरलवा अन्तस्थाः ॥१५॥ एते अन्तस्थाः स्युः ॥ अं अः क 4 पशषसाः शिट् ॥१६॥ अकपा उच्चारणार्थाः, अनुस्वारविसर्गों वज्रगजकुम्भाऽऽकृती च वर्णी, शषसाश्च शिटः स्युः ॥ तुल्यस्थानाऽऽस्यप्रयत्नः स्वः ॥१७॥ स्थानं कण्ठादि । “अष्टौ स्थानानि वान । 'तदस्यास्ति' इति मतुः । अघोपेभ्योऽन्य इति, गघङादी. नामघोषाऽपेक्षयाऽन्यत्वमतिशयितघोषवत्त्वाबोध्यम् ।। यरलवाः अ. न्तस्थाः, यश्च रश्च लश्च वश्च यरलवाः । स्पर्शोष्मणोरन्तर्मध्ये तिष्ठन्तीति अन्तस्थाः । वर्णविशेषणमप्यन्तस्थाशब्दो बाहुलकत्वात् स्त्रीलिङ्गः, बहुवचनं सानुनासिकादिभेदपरिग्रहार्थम् | यलवाः सानु. नासिकनिरनुनासिकभेदवन्तो भवन्ति । अं अः क पशषसाः शिट. अंश्च अश्व - कश्च ८ पश्च शश्च षश्च सश्च अं अः ५ क ) पशषसाः । बहुवचनं वर्णेष्वपठितयोः ४ क ८ पयोः वर्णत्वार्थम् । शिपंप विशेषणे, शिनष्टीति शिट् , किप् । विषयनामत्वात् शिधुटोः पुंस्त्वम् । वज्रगजकुम्भाकृतीति, वज्रश्च गजकुम्भश्च वज्रगजकुम्भौ तयोरिवाऽऽकृतिः ययोस्तौ वज्रगजकुम्भाकृती । कपूर्ववर्तिनः वजाऽऽकृतित्वं पपूर्ववर्तिनश्च गजकुम्भाकृतित्वं विज्ञेयम् । एतौ द्वौ न स्वतन्त्रौ, नाऽपि पूर्ववर्णसम्बद्धौ, किन्तु परस्थकखपफवर्णसम्बद्धावेव भवतः, अनयोः रेफादेशत्वात् , रेफस्य च वर्णत्वादनयोरपि वर्णत्वसिद्धिः ॥ तुल्यस्थानाऽऽस्यप्रयत्नः स्वः, तुलण उन्माने तोलनं तुला, 'भिदाद्यङि" तुला, तुलया सम्मितः तुल्यः । 'हृद्यपद्ये 'ति तुल्येति निपातः । ष्ठां गतिनिवृत्तौ, स्थीयतेऽत्रेति स्थानं, करणाधारेऽनट् । असूच क्षेपणे, अस्यतेऽनेनेति · ऋवर्णव्यञ्जनाद्' ध्यण् । यतैङ् प्रयत्ने, प्रयतनं प्रयत्नः, स्वः । स्थानास्य प्रयत्नाभ्यां यो वर्णो
SR No.023395
Book TitleSiddha Hem Llaghu Vrutti Avchuri Parishkar
Original Sutra AuthorN/A
AuthorJitendravijay
PublisherRanjanvijay Jain Pustakalay
Publication Year2007
Total Pages470
LanguageSanskrit
ClassificationBook_Devnagari
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy