SearchBrowseAboutContactDonate
Page Preview
Page 46
Loading...
Download File
Download File
Page Text
________________ , प्रथमपादः] अवचूरिपरिष्कारसहितायाम् । ॥११॥ वर्गपञ्चमान्तस्थावर्जः कादिवर्णो धुट् स्यात् । क ख ग घ, च छ ज झ, ट ठ ड ढ, त थ द ध, पफ ब भ, श ष स ह ॥ पञ्चको वर्गः ॥१२॥ कादिषु वर्णेषु यो यः पञ्चसङ्ख्यापरिमाणो वर्णः स स वर्गः स्यात् । क ख ग घ ङ, च छ ज झ ञ, ट ठ ड ढ ण, त थ द ध न, प फ ब भ म ॥ आद्यद्वितीयशषसा अघोषाः ॥१३॥ वर्गाणामाद्यद्वितीया वर्णाः शपसाश्चाऽघोषाः स्युः । क ख, च छ, ट ठ, त थ, प फ, श ष स ॥ अन्यो घोपश्चानां पूरणः पञ्चमः, अन्ते तिष्ठन्तीति अन्तस्थाः, पञ्चमाश्चान्तस्थाश्च पश्चमान्तस्थाः, न विद्यन्ते पश्चमान्तस्थाः यत्रासावपञ्चमान्तस्थः । धुक्षि धिक्षि सन्दीपने, धुक्षते इति धुत् किम् । कादिरित्यनुवर्तते, वर्गपञ्चमान्तस्थावर्ज इति, वर्गपञ्चमाः ङञणनमाः, अन्तस्थाश्च यरलवाः, एतान्वर्जयित्वेत्यर्थः ॥ पञ्चकः वर्गः, पञ्च सङ्ख्या मानमस्येति पञ्चकः । 'सङ्ख्याडतेश्चाशत्तिष्टेः क' इति कः । वृग्ट् वरणे, वृणोति आत्मीयमेकत्वेन व्यवस्थापयतीति वर्गः, 'गम्यमी'ति गप्रत्ययः । सजातीयवर्णसमुदायो वर्गः, स च कवर्गादिभेदेन ज्ञेयः ॥ आद्यद्वितीयशषसाः अघोषाः, आदीयतेऽर्थोऽस्मादि. त्यादिः । आदौ भवः आद्यः, 'दिगादिदेहांशायु' इति यप्रत्ययः । द्वयोः पूरणो द्वितीयः, ' द्वेस्तीये 'ति तीयप्रत्ययः । आद्यश्च द्वितीयश्च शश्च षश्च सश्च आद्यद्वितीयशषसाः । अघोषाः, घुष शब्दे, घोषणं घोषः, न विद्यते घोषो ध्वनिर्येषान्ते अघोषाः। इह चानुदरा कन्या इति. -वदघोषाणामल्पत्वादिहेतुना घोषाभावाऽऽरोपो ज्ञातव्यः । अघोषा इति, अल्पत्वादिनाऽऽरोपितघोषाभाववन्त इत्यर्थः । अत्र बहुव्रीहिणा मत्वर्थस्य लाभान्न मतुः कृतः, 'न कर्मधारयान्मत्वर्थीयो बहुव्रीहिश्चेत्तदर्थप्रतिपत्तिकर' इति न्यायाञ्च, कर्मधारयापेक्षयात्र बहुब्रीहौ लाघवं विज्ञेयम् । अन्यः घोषवान् , घोषोऽस्यास्तीति घोप
SR No.023395
Book TitleSiddha Hem Llaghu Vrutti Avchuri Parishkar
Original Sutra AuthorN/A
AuthorJitendravijay
PublisherRanjanvijay Jain Pustakalay
Publication Year2007
Total Pages470
LanguageSanskrit
ClassificationBook_Devnagari
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy