________________
सिद्धदेमलघुवृत्तौ
[ प्रथमाध्यायस्य
।
आ इ ई उ ऊ ऋ ॠ ऌ ॡ ॥ ए ऐ ओ औ सन्ध्यक्षरम् ||८|| ए ऐ ओ औ इत्येते सन्ध्यक्षराणि स्युः ॥ अं अः अनुस्वारविसग || ९ || अकारावुच्चारणार्थौ । 'अं' इति नासिक्यो वर्णः, ‘ अः ''इति च कण्ठ्यः, एतौ यथासङ्ख्यमनुस्वारविसर्गौ स्याताम् ॥ कादिर्व्यञ्जनम् ॥१०॥ कादिर्वर्णो हपर्यन्तो व्यञ्जनं स्यात् । क ख ग घ ङ च छ ज झ ञ ट ठ ड ढ ण त थ द ध न प
"
फ ब भ म, य र ल व
1
'
श ष स ह ॥ अपञ्चमान्तस्थो घुट् इति समानस्य संभावः, अत्रावर्णादीनां समानता नाऽऽकारतः विलक्षणत्वात्, किन्तु उदात्तानुदात्तस्वरितसानुनासिक निरनुनासिकलक्षपरिमाणभेदात् ॥ ए ऐ ओ औ संध्यक्षरम् एव ऐश्व ओश्च औश्च ए ऐ ओ औ सूत्रत्वाद्विभक्तिलोपः । सन्धानं सन्धिः, सन्धावक्षरं संन्ध्यक्षरम् । अत्र स्पष्टप्रतिपत्त्यर्थं सन्ध्यभावः, अथवा 'चादि स्वरोsना ' इति सूत्रेणासन्धिः । सन्ध्यक्षराणीति, अवर्णस्ये वर्णेन सह सन्धावेकारः एकारैकाराभ्यामैकारः अवर्णस्योवर्णेनौकार ओकारौकाराभ्यामौकार इति सन्ध्यक्षराणि विज्ञेयानि ॥ अं अः अनुस्वारविसग, अंश्च अश्व अंअः सूत्रत्वाल्लोपः । अनु और शब्दोपतापयो: अनुस्वर्यत इत्यनुस्वारः, भावाकर्घञ् । सृजिच् विसर्गे, विसृज्यत इति विसर्गः, घन् । अनुस्वारश्च विसर्गश्चाऽनुस्वारविस। अकाराविति, अकारोत्तरं विद्यमानयोरेकबिन्दु बिन्दुद्वययोरेवानुस्वारविसर्गसंज्ञकत्वाद्विन्दुमात्राभिव्यङ्गयो नासिक्यो वर्णविशेषोऽनुस्वारः, बिन्दुद्वयमात्राभिव्यङ्गयः कण्ठयो वर्णविशेषो विसर्गः ॥ कादिः व्यञ्जनम्, क आदिर्यस्य सः कादिः । वि अञ्जप् व्यक्तिम्रक्षणगतिषु, व्यज्यते प्रकटीक्रियतेऽर्थोऽनेनेति करणाधारेऽनट् प्रत्ययः । व्यञ्जनं स्वराणामर्थप्रकाशने उपकारकं भवति । एवमनुस्वारविसर्गयोरपि व्यञ्जनसंज्ञा विज्ञेया || अपश्चमान्तस्थो घुट्,
५५
w
•