________________
प्रथमपादः ] अवचूरिपरिष्कारसहितायाम् । चारणमात्रा औदन्ता वर्णा यथासङ्ख्यं ह्रस्वदीर्घप्लुतसंज्ञाः स्युः । अ इ उ ऋ ल, आ ई ऊ ऋ ल ए ऐ ओ औ, आ ३ ई ३ ऊ ३ इत्यादि ॥ अनवर्णा नामी ॥६॥ अवर्णवर्जा औदन्ता वर्णा नामिसंज्ञाः स्युः । इ ई उ ऊ ऋ ऋ ल ल ए ऐ ओ औ ॥ लृदन्ताः समानाः ॥७॥ लूकारावसाना वर्णाः समानाः स्युः । अ षान्ते, 'गोश्चान्ते' इति ह्रस्वः, 'अतः आ' 'समानानां' 'सो रुः' ' अवर्णभोभगो' इति लोपः । हूस् शब्दे, इसति अपचितो भवति इति हस्वः । 'लटिखटी'ति वप्रत्ययः। दृश् विदारणे, दृणाति वि. दारयति मुखमिति दीर्घः निपातनात् । प्लुङ् गतौ, प्लवते मात्राधिक्यमिति प्लुतः । ह्रस्वश्च दीर्घश्च प्लुतश्च ह्रस्वदीर्घप्लुताः । मात्रा कालविशेष इति, स्वरस्यात्यन्तापकृष्टो निमेषोन्मेषक्रियापरिच्छिन्नोच्चारणकालो मात्रा । एकेति, ' एकमात्रो भवेद्धस्वो द्विमात्रो दीर्घ उच्यते । त्रिमात्रस्तु प्लुतो ज्ञेयो व्यञ्जनश्वार्धमात्रकम् ' । अत्र ए ऐ ओ औ वर्णानां न ह्रस्वत्वम् । पाणिनीये विवृतस्य लुवर्णस्य दीर्घत्वं नास्ति । औदन्ता इति पदमर्द्धमात्रिकयोर्व्यञ्जनयोर्मेलनेन एकमात्रत्वसम्भवेऽपि इस्वसंज्ञाव्यावृत्तये ॥ अनवर्णा नामी, न विद्यतेऽवर्णो येषु तेऽनवर्णाः । णमं प्रह्वत्वे, भावाकोंर्घ । नामोऽस्यास्तीति नामी । 'अतोऽनेकस्वरादिति इन् , ' अवर्णस्ये' त्यलोपः । 'इन हन् पूषा' इति दीर्घः, 'दीर्घड्याप्' सिलोपः, 'नाम्नो' नलोपः। नामिन इत्यकृत्वा नामीति करणं यत्र कार्यात् कार्या स्वरो न्यूनो भवति तत्रैव नामिसंज्ञा स्यान्नान्यत्रेति ज्ञापनार्थ, तेन ग्लायति म्लायतीत्यादौ न गुणः। विशेषणविशेष्यभावस्तु वचनभेदेऽपि सामान्यविशेषभावेन, यथा वेदाः प्रमाणमिति । अनवर्णा इति बहुवचनं प्लुतसङ्ग्रहार्थम् ।। लदन्ताः समानाः, लुत् अन्ते अन्तो वा येषां ते । समानं तुल्यं मानं परिमाणं येषान्ते समानाः । 'समानस्य धर्मादिषु'