SearchBrowseAboutContactDonate
Page Preview
Page 43
Loading...
Download File
Download File
Page Text
________________ सिद्धहेमलघुवृत्तौ [प्रथमाध्यायस्य अ आ इ ई उ ऊ ऋ ऋ ल लू, ए ऐ ओ औ ॥ एकद्वित्रिमात्रा इस्वदीर्घप्लुताः ॥५॥ मात्रा कालविशेषः, एकद्विव्यु'धुटस्तृतीयः' तस्य दः, लोकादकारेण योगः। स्वयं राजन्ते शोभन्ते इति स्वराः। 'कचिदिति डप्रत्ययः 'डित्यन्त्यस्वरादेः' अन्त्यस्वरलोपः, पृषोदरादित्वात् स्वयंशब्दस्य स्वः । बहुवचनं वर्णेष्वपठितानां प्लुतानां सङ्ग्रहणार्थम् , तेन तेषामपि स्वरसंज्ञा स्यात् । औदन्ता इत्यत्र तद्गुणसंविज्ञानो बहुव्रीहिः यथा लम्बकर्णः । अतद्गुणसंविज्ञानबहुव्रीहौ तु औकारस्य स्वरत्वाप्राप्त्या, 'अष्टन औ'रित्यादिसूत्रेषु ' स्वरे वा' इत्यनेन यलोपो न स्यात् । औदित्यत्र तकारः स्पष्टप्रतिपत्तये, अन्यथा आवन्ताः इत्युच्येत, तथा च सति औकारप्रतीतिः क्लिष्टा भवेत् । षोढा सूत्राणि, ' औदन्ताः स्वराः' इत्येवमादीनि संज्ञासूत्राणि, 'शापे व्याप्यात्' इत्यादीनि परिभाषासूत्राणि, 'तक्त. वतू ' ' ईङितः कर्तरि ' इत्यादीनि विधिसूत्राणि, ' इदमदसोऽक्ये. वे 'ति नियमसूत्राणि, 'नस्तं मत्वर्थे ' इत्यादीनि प्रतिषेधसूत्राणि 'घुटि' 'आ रायो व्यञ्जने' इत्यादीन्यधिकारसूत्राणि । औदन्तसमुदायं दर्शयति, अ आ इत्यादि, तथा च दीर्घाणां पृथग्गणनया औदन्ताश्चतुर्दश, प्लुतानान्तु विशेषसूत्रविहितत्वेन पृथग्गणनाभावात् ॥ एकद्वित्रिमात्राः इस्वदीर्घप्लुताः, इंण्क् गतौ, एत्यसहायतामिति ' भीणशली 'ति के गुणे च एका । उभतः द्वित्वप्रतीतिं पूरयतस्तथा उभन्ति त्रित्वप्रतीति पूरयन्तीति व्युत्पच्या उणादित्वादिप्रत्यये क्रमतः उभस्य द्विव्यादेशे द्वे तिस्रः, एका च द्वे च तिस्रश्च एक. द्वितिस्रः, 'सर्वादयोऽस्यादा 'विति पुंवद्भावात् । नन्वेका चेति । द्वन्द्वो न सर्वादिरिति, ' सर्वादयोऽस्यादा 'विति कथं पुंवद्भावः, उच्यते, तत्र बहुवचनं व्याप्त्यर्थम् , तेन भूतपूर्वस्यापि सर्वादेः पुंवद्भावो भवति । मीयतेऽनयेति मात्रा, एकद्वितिस्रो मात्रा विद्यन्ते ये
SR No.023395
Book TitleSiddha Hem Llaghu Vrutti Avchuri Parishkar
Original Sutra AuthorN/A
AuthorJitendravijay
PublisherRanjanvijay Jain Pustakalay
Publication Year2007
Total Pages470
LanguageSanskrit
ClassificationBook_Devnagari
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy