________________
३९८
सिद्धमलघुवृत्तौ [ तृतीयाध्यायस्य
परस्याः षष्ठ्या अकन्विषये उत्तरपदे आयनणि च परे लुब् न स्यात् । आमुष्यपुत्रिका, आमुष्यायणः । देवानांप्रियः ॥ ३४ ॥ अत्र षष्ठ्या लुब् न स्यात् । देवानांप्रियः ॥ शेफपुच्छलाङ्गलेषु नाम्नि शुनः || ३५ ॥ शुनः परस्याः षष्ठ्याः शेफादावुत्तरपदे संज्ञायां लुब् न स्यात् । शुनःशेफः शुनःपुच्छ, शुनोलाङ्गलकः ॥ वाचस्पतिवा स्तोष्पतिदिवस्पतिदिवोदासम् ॥ ३६ ॥ एते समासाः षष्ठ्यलुप निपात्यन्ते नाम्नि । वाचस्पतिः, वास्तोष्पतिः, दिवस्पतिः, दिवो. दासः ॥ ऋतां विद्यायोनिसम्बन्धे ॥ ३७ ॥ ऋदन्तानां विद्यया
.
त्येव । अमुष्य पुत्रस्य भवा आमुष्यपुत्रिका, 'चौरादेरि ' त्यकन्, आदिवृद्धिः । अमुष्यापत्य मामुष्यायणः, नडादिभ्य इत्यायनण् ॥ देवानांप्रियः । अखण्डस्थापना, देवानांप्रियः ऋजुः मूर्खो वा ॥ शेफश्च पुच्छश्व लाङ्गलञ्च तेषु, नाम्नि, शुनः पञ्चमी । शुनः शेफमिव शेफमस्येति शुनःशेषः । गौर्लिङ्गं चिह्नशेफसोरित्यमरे सका. रान्तः शेफइशब्दः, इह तु शीङो निपातनादौणादिके फप्रत्ययेऽकारान्तोऽप्यस्ति शेफशब्दस्तस्यान्त्र ग्रहणम् । त्रयोऽप्यमी ऋषिविशेषाणां संज्ञाः || वाचस्पतिश्च वास्तोष्पतिश्व दिवस्पतिश्च दिवोदासश्च ॥ नाम्नीति वर्तते । वाचः पतिः वाचस्पतिः, षष्ठयाः अलुप्, निपातनात् सत्वं । वास्तोः पतिः वास्तोष्पतिः, निपातनात्त्वम् । दिवः पतिः दिवस्पतिः, दिवः दासः दिवोदासः ॥ ऋताम्, विद्या च योनिश्च ताभ्यां सम्बन्धस्तस्मिन् । विद्यासम्बन्धस्य योनिसम्बन्धस्य च वाचिनः ऋदन्तात्षष्ठ्याः विद्यायोनिसम्बन्धे एव वर्तमाने उत्तरपदे goat स्यादित्यर्थः । विद्यासम्बन्धयोनिसम्बन्धवाचकयोरन्यतरस्य यत्र पूर्व पदत्वमुत्तरपदत्वञ्च तत्रैवास्य प्रवृत्तिरिति भावः । होतुः पुत्रः होतुः पुत्रः । भर्तृगृहमित्यत्र तु नायकवाचको भर्तृशब्दः । ऋतामिति बहुवचनं विद्यासम्बन्धनिमित्तात् विद्यासम्बन्धनिमित्ते योनिसम्ब