________________
३९६
सिद्धहेमलघुवृत्ती [ तृतीयाध्यायस्य पदेषु लुब् वा न स्यात् । बिलेशयः, बिलशयः । वनवासी, वनवासी। मामेवासः, प्रामवासः। अकालादिति किम् ! पूर्वाशयः ॥ वर्ष क्षरवराप्सर शरोरस्मनसो जे ॥ २६ ॥ एभ्यः परस्याः सप्तम्या जे उत्तरपदे लुब् वा न स्यात् । वर्षेजः, वर्षजः । क्षरेजः, क्षरजः । वरेजः, वरजः। अप्सुजम् , अन्जम् । सरसिजम् , सरोजम् । शरेजम् , शरजम् । उरसिजः, उरोजः । मनसिजः, मनोजः ।। झुप्रा. वृहर्षाशरत्कालात् ॥ २७ ॥ एभ्यः परस्याः सप्तम्या जे उत्तरपदे लुब् न स्यात् । दिविजः, प्रावृषिजः, वर्षासुजः, शरदिजः, कालेजः ।। अपो ययोनिमतिचरे ॥ २८ ॥ अपः परस्याः सप्तम्या ये प्रत्यये योन्यादौ च उत्तरपदे लब् न स्यात् । अप्सव्यः, अप्सुयोनिः, अप्सुमतिः, अप्सुचरः ॥ नेन्सिद्धस्थे ॥ २९ ॥ इन्प्रत्ययान्ते सिद्ध'अजातेः शीले' इति णिन् । मामे वसनं प्रामेवासः, भावाकोंर्घजू । पूर्वाहे शेते इति पूर्वाशयः, अत्र कालवाचिपूर्वपदत्वान्नालुप् ।। वर्षश्च क्षरश्च वरश्च अप च सरश्च शरश्च उरश्च मनश्च तस्मात् , जे ॥ वर्षे जातः वर्षेजः, 'सप्तम्या' इति डप्रत्ययः, स्पष्टमन्यत् ॥ द्यौश्च प्रावृट् च वर्षा च शरच कालश्च तस्मात् । जे इति वर्तते, योगविभागाभवेति निवृत्तम् । दिवि जातो दिविज इत्यादि ॥ अपः पञ्चमी, यश्च योनिश्च मतिश्च चरश्च तस्मिन् । अप्सु भवः अप्सव्यः, दिगादित्वाधः, अस्वयम्भुवोऽव, अप्सु योनिरस्य अप्सुयोनिः, इत्यादि ।। न, इन् च सिद्धश्च स्थश्च तस्मिन् । इनिति पदेन इन्प्रत्ययान्तग्रहणम् । यद्यप्युत्तरपदाधिकारे प्रत्यराग्रहणे तदन्तविधिनास्ति तथाप्यत्र सामर्थ्यात्तदन्तविधिः, सप्तम्यतादिन्प्रत्ययासम्भ. बात् । अनुवर्तमाननशब्दः सूत्रस्थनबा मि िलेतः विभक्तिलुपो विधानमेव गमयति, 'द्वौ नबौ प्रकृतमथं गमय त' इति न्यायात् , अत एव भवत्येवेत्यर्थ इत्युक्तम् । इदमेव नम्रहणममुं न्यायं सूच