________________
द्वितीयपादः ] अवन्त्रिपरिष्कारसहितायाम् । ३९३ परहितम् ॥ अद्यञ्जनात्सप्तम्या बहुलम् ॥ १८॥ अदन्ताद्वयञ्जनाच परस्याः सप्तम्या बहुलं नाम्नि लुब् न स्यात् । अरण्येतिलकाः युधिष्ठिरः। अव्यञ्जनादिति किम् ? भूमिपाशः। नाम्नीत्येव ! तीर्थकाकः ॥ प्राकारस्य व्यञ्जने ॥ १९ ॥ राजलभ्यो रक्षा. निवेशः कारः। प्राचां देशे यः कारस्तस्य संज्ञायां गम्यमानायामद्वयञ्जनात्परस्याः सप्तम्या व्यञ्जनादावुत्तरपदे लुब् न स्यात् । मुकुटेकार्षापणः, समिधिमाषकः । प्रागिति किम् ? यूथपशुः, उदीचामयं न प्राचां । कार इति किम् ? अभ्यर्हितपशुः । व्यञ्जन इति किम् ? नाम्नीति चानुवर्तते । परस्मै हितं परहितम् ।। अच्च व्यञ्जनश्च तस्मात् , सप्तम्याः, बहुलम् । लुब्न नाम्नीति वर्तते । अरण्येतिलका इति अदन्तात्परस्याः सप्तम्याः उदाहरणम्, नाम्नीति समासः । युधिष्ठिर इति व्यञ्जनान्तात्परस्याः, गवियुधेः स्थिरस्येति षत्वम् । भूमौ पाश इव भूमिपाशः, न चात्र संज्ञाशब्दत्वाभाषादेवालुब्न भवतीति वाच्यम् , संज्ञा हि कचित्साध्यमाना, कचिच्चासाध्यमाना भवति, ततश्चात्र साध्यमाना संज्ञा अस्तीति प्रत्युदाहृतम् । तीर्थे काक इव तीर्थकाकः, काकाद्यैरिति समासः। प्राचां कारस्तस्य, व्यञ्जने । नाम्नि, अव्यञ्जनात् सप्तम्याः उत्तरपदे लुन्न इति वर्तन्ते, एवमग्रे । मुकुटे मुकुटे कार्षापणो देय इति मुकुटे कार्षापणः, पूर्वदेशप्रसिद्धः मुद्राविशेषस्तस्मिन्देशे यो मुकुटं बध्नाति स: कार्षापणं गृहाति । समिध इन्धनभारकं यस्तस्मिन्देशे आनयति, स हिरण्यादिमाषकं गृह्णातीति समिधिमाषको देयः समिधिमाषकः, नाम्नीति समासः, यदि पूर्वदेशप्रसिद्धं भवति । यूथे यूथे देयः पशुः यूथपशुः, उदीचां देशे कारोऽयं न तु प्राचाम् । अभ्यर्हिते अभ्यर्हिते देयः पशुः अभ्यर्हितपशुः, प्राचां देशे कारादन्यस्य नामैतत् । अवि. कटे अविकटे उरणो दातव्यः अविकटोरणः, अविकढ़ः अवीनां