________________
सिद्धहेमलघुवृत्तौ
[ तृतीयाध्यायस्य
ऽम्भस्तमस्तपसष्टः ।। १२ ।। एभ्यः परस्य टावचनस्योत्तरपदे परे लुब् न स्यात् । ओजसाकृतम्, अञ्जसांकृतम्, सहसाकृतम्, अम्भसाकृतम्, तमसाकृतम्, तपसाकृतम् । ट इति किम्, ओजोभावः ॥ पुम्जनुषोऽनुजान्धे ॥ १३ ॥ पुञ्जनुर्भ्यां परस्य टो यथासङ्ख्यमनुजेऽन्धे चोत्तरपदे लुब् न स्यात् । पुंसानुजः, जनुषान्धः । ट इत्येव ? पुमनुजा || आत्मनः पूरणे ॥ १४ ॥ अस्मात्परस्य टः पूरणप्रत्ययान्ते उत्तरपदे लुब् न स्यात् । आत्मना द्वितीयः, आत्मनाषष्ठः ॥ मनसश्चाऽऽज्ञायिनि ।। १५ ।। मनस आत्मनश्च परस्य ट आज्ञायिन्युत्तरपदे लुब् न स्यात् । मनसाऽऽज्ञायी, आत्मनाऽऽज्ञायी ॥ नाम्नि || १६ || मनसः परस्य टः संज्ञाविषये उत्तरपदे परे लुब् न स्यात् । मनसा देवी । नाम्नीति किम् ? मनोदत्ता कन्या । परात्मभ्यां ङः || १७ || आभ्यां परस्य वचनस्योचरपदे नाम्नि लुब् न स्यात् । परस्मैपदम् आत्मनेपदम् । नाम्नीत्येव !
३९२
"
न भवति, तृतीया कर्तरि करणे वा, ' कारकं कृते 'ति समासः । अनेन तृतीयाया लुब्न । एवमप्रे । ओजसो भावः ओजोभाव: T: 11 पुमांश्व जनूश्च तस्मात्, अनुजश्वान्धश्च तस्मिन् । ट इत्यधिकं वर्तते । पुंसा अनुजः पुंसानुजः, जनुषा जन्मनाऽन्धो, जनुषान्धः, कारकं कृतेति समासः । पुमांसमनुजाता पुमनुजा, "श्रितादिभिरि', 'ति समासः, अनो जनेर्ड: इति प्रत्ययः । आत्मनः पञ्चमी, पूरणे । अनुवृत्तिः पूर्ववत् । एवमग्रेऽपि । आत्मनाद्वितीयः ऊनार्थ पूर्वाधैरिति समासः, अनेन तृतीयायाः न लुप् । यद्भेदैरिति तृतीया | मनसः, च, आज्ञातुं शीलमस्य तस्मिन् । आत्मन इत्यधिकं वर्तते । मनसाssज्ञातुं शीलमस्येति मनसाज्ञायी । नाम्नि | मनसः इत्यधिकमनुवर्तनीयम् । मनसादेवी सरस्वतीत्यर्थः । मनसा दत्ता मनो दत्ता कन्या । परश्चात्मा च ताभ्यां ङेः । ट इति विहाय पूर्व सर्व