________________
द्वितीयपादः ] अवधूरिपरिष्कारसहितायाम् । . ३९१ पदमुत्तरपदं तस्मिन् खित्प्रत्ययान्ते उत्तरपदे परे, नाम्यन्तादेकस्वरापूर्वपदात्परस्यामो लुब् न स्यात् । स्त्रियंमन्य नावंमन्यः । नामीति किम् ? मंमन्यः । एकस्वरादिति किम् ? वधुंमन्यः। खितीति किम् ? स्त्रीमानी॥ असत्त्वे उसेः ॥ १० ॥ असत्त्वे विहितस्य उसेरुत्तर. पदे परे लुब् न स्यात् । स्तोकान्मुक्तः । असत्त्व इति किम् ? स्तोकभयम् । उत्तरपद इत्येव ! निःस्तोकः ॥ ब्राह्मणाच्छंसी ॥ ११ ॥ अत्र समासे उसे बभावो निपात्यते । ब्राह्मणाच्छंसिनौ । निपातनादृत्विग्विशेषादन्यत्र लुबेव । ब्राह्मणशंसिनी स्त्री ॥ ओजोऽञ्जःसहोघटकमन्त्यं पदमुत्तरपदं तथाविधमादिपदं पूर्वपदम् । खितीति पदं. खकारानुबन्धप्रत्ययबोधकं तदाद्युत्तरपदस्याप्रसिद्धेः सप्तम्या आदि. रिति परिभाषामुपेक्ष्योक्तं खित्प्रत्ययान्ते उत्तरपदे इति । त्रियमात्मानं मन्यते स्त्रियंमन्यः, मन्यात् ‘कर्तुः खशि' ति खश्प्रत्ययः, • खित्यनव्ययेति मोन्तः । मंमन्य इत्यत्र क्ष्मेति पूर्वपदो न नाम्यन्तः । वर्षामन्य इत्यत्र तु नाम्यन्तपूर्वपदो नैकस्वरः । स्त्रीमानीत्यत्र तु न खश् किन्तु मन्याणिनिति णिन् । ऐकार्य इति विहि. तस्य लुपोऽपवाद; न तु नपुंसकलक्षणस्य लोपस्य, उत्तरपदग्रहणात् ।। न सचमसचं तस्मिन् , ङसेः षष्ठी । उतरपदे न लुबिति वर्तते । स्तोकात् मुक्तः, क्तेनासत्त्वे इति समासः, स्तोकाल्पेति पञ्चमी, अनेन सूत्रेणासत्त्वेऽद्रव्ये विहितस्य पञ्चम्या न लुप् । निष्क्रान्तः स्तोका. दिति निःस्तोकः, अत्र तोकशब्दः पूर्वपदः, 'प्रात्यवपरी'ति समासः ॥ ब्राह्मणात् , शंसी । ब्राह्मणान्थादादाय शंसेते इति ब्राह्मणाच्छंसिनी, व्रताभीक्ष्ण्ये इति णिन् । रूढिवशात् ऋत्विग्विशेष उच्यते, अन्यत्र तु.लुप्, निपातनस्येष्टविषयत्वात्, ओजाश्चाञ्जाश्च सहाश्चाम्भाश्च तमाश्च तपाश्च तेभ्यः, टः षष्ठी। अनुवृत्तिः पूर्ववदेवमग्रेऽपि । ओजसा क्रियते स्मेत्योजसाकृतम् , क्तयोरसदाधार इति निषेधात् कर्तरि षष्ठी