SearchBrowseAboutContactDonate
Page Preview
Page 416
Loading...
Download File
Download File
Page Text
________________ प्रयमपादः] अवचूरिपरिष्कारसहितायाम् । ३७७ पशुव्यञ्जनानाम् ॥ १३२ ॥ पशूनां व्यञ्जनानाञ्च स्वैर्द्वन्द्व एकार्थो वा स्यात् । गोमहिषौ । दधिघृतम् , दधिघृते ॥ तरुतृणधान्यमृगपक्षिणां बहुत्वे ॥१३३ ॥ एतद्वाचिनां बह्वर्थानां प्रत्येकं स्वैर्द्वन्द्व एकार्थो वा स्यात् । प्लक्षन्यग्रोधम् , प्लक्षन्यग्रोधाः । कुशकाशम् , कुशकाशाः । तिलमाषम् , तिलमाषाः ऋश्चैणम् , ऋश्चणाः । हंसचक्रवाकम् , हंसचक्रवाकाः ॥ सेनाङ्गक्षुद्रजन्तू. नाम् ॥ १३४ ॥ सेनानाना क्षुद्रजन्तूनाश्च बह्वर्थानां स्वैर्द्वन्द्व एकार्थो पशवश्च व्यञ्जनानि च तेषाम् ॥ अवयवावयविसम्बन्धे षष्ठी, तेन पश्ववयवो व्यञ्जनावयवश्च द्वन्द्व इत्यर्थः, पशवो प्राम्या गवादयो प्राह्याः, न त्वारण्याः कुरङ्गादयः, उत्तरत्र मृगग्रहणात् । गौश्च महिषश्च गोमहिषम्। व्यञ्जनं येनान्नं रुचिमापद्यते तदधिघृतशाकसूपादि । दधि च घृतश्च दधिघृतम्, अत्रापि स्वत्वं पशुत्वेन व्यञ्जनत्वेन च ।। तरवश्व तृणानि च धान्यश्च मृगाश्च पक्षिणश्च तेषां बहुत्वे ॥ लक्षाश्च न्यग्रोधाश्च प्लक्षन्यग्रोधम् , तरुशब्देन तद्विशेषाणामेव ग्रहणम्, न तु सामान्यस्य । वृक्षश्च वृक्षश्चेति समासे ‘स्यादावसङ्ख्येय' इति प्रवृत्तेः, वृक्षश्च तरुश्चेति द्वन्द्वे 'समानार्थेने ति प्रवृत्तेः । एवं तृणादयोऽपि विशेषा एव ग्रामाः। कुशाश्च काशाश्च कुशकाशम् ।। सेनाया अङ्गानि सेनाङ्गानि, क्षुद्राश्च ते जन्तवश्व, सेनाङ्गानि च क्षुद्र जन्तवश्व तेषाम् ।। बहुत्व इति वर्तते, पथग्योगान्नवेति निवृत्तम् । अश्वाश्च रथाश्च अश्वरथम् । क्षुद्रजन्तवोऽल्पकायाः प्राणिन आनकुलमिह स्मर्यन्ते। यूकाश्च लिक्षाश्च यूकालिक्षम् ।। फलस्य जातौ । बहुत्व इति वर्तते । बदराणि चाऽऽमलकानि च बदरामलकम् , बदरामलकशब्दौ फलवाचिनौ, फलविहितप्रत्ययस्य लोपात् । एतानि बदरामलकानीति, ४८
SR No.023395
Book TitleSiddha Hem Llaghu Vrutti Avchuri Parishkar
Original Sutra AuthorN/A
AuthorJitendravijay
PublisherRanjanvijay Jain Pustakalay
Publication Year2007
Total Pages470
LanguageSanskrit
ClassificationBook_Devnagari
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy