SearchBrowseAboutContactDonate
Page Preview
Page 415
Loading...
Download File
Download File
Page Text
________________ ३७६ सिरहेमलघुवृत्ती [ तृतीयाण्यायस्य मतदाश्रयवृत्तीनां द्वन्द्वो वैकार्थः स्यात् , स्वैः सजातीयैरेवाऽऽरब्ध. श्वेत् । सुखदुःखम् , सुखदुःखे । लाभालाभम् , लाभालाभौ । विरोधिनामिति किम् ! कामक्रोधौ । अद्रव्याणामिति किम् ! शीतोष्णे जले स्वैरिति किम् ! बुद्धिसुखदुःखानि ॥ अश्वघडवपूर्वोपराधरो. त्तराः ॥ १३१ ।। एते त्रयोऽपि द्वन्द्वा एकार्था वा स्वैश्वेत् । अश्वः वडवं अश्ववडवौ । पूर्वापरं पूर्वापरे । अधरोत्तरं अधरोत्तरे ॥ येषां तानि विरोधीनि तेषाम् , न विद्यते द्रव्यं प्रतिपाद्यतया येषां तान्यद्रव्याणि तेषाम् , नवा द्वन्द्वः स्वैः ॥ एकमित्यनुवर्तते । 'वस्तूपलक्षणं यत्र सर्वनामप्रयुज्यते । द्रव्यमित्युच्यते सोऽर्थो भेद्यत्वेन विवक्षितः' । इति लक्षणलक्षितं द्रव्यमत्र न ग्राह्यम् , अन्यथा सुखदुःखादीनामपि द्रव्यत्वं स्यात् , किन्तु गुणादीनामाश्रयोऽत्र द्रव्यमित्याशयेनाह द्रव्यमिति । सुखश्च दुःखश्च सुखदुःखे । विरोधः सहानवस्थानम् । अनयोः सहानवस्थानाद्विरोधः, एवमग्रेऽपि । कामक्रोधौ, अनयोः सहावस्थानमस्तीति नैकवद्भावः । शीतोष्णे जले द्रव्यवाचिनाविमौ शब्दौ । बुद्धिश्च सुखश्च दुःखञ्च बुद्धिसुखदुःखानि। अत्र सुख. दुःखे विरोधिनी, बुद्धिस्त्वविरोधिनी, असमानजातीयमविरोध्यवयमत्रप्रविष्टमिति सजातीयैरेव नारब्धमतो नैकवद्भावः । समाहारे चार्थे एकत्वस्येतरेतरयोगे.चाने कत्वस्य सिद्धत्वाद्विकल्पे सिद्धे सर्व मिदं विक. ल्पानुक्रमणं नियमार्थम् , विरोधिनामेव, अद्रव्याणामेव,स्वैरेवेति । तथा च प्रत्युदाहरण इतरेतरयोग एव भवति ॥ अश्ववडवश्व, पूर्वापरश्च अधरोत्तरश्च ॥ एक नवा द्वन्द्वः स्वैरित्यनुवर्तन्ते, एवमप्रेऽपि । अश्वश्व वडवा च अश्ववडवम् । अश्ववडवेति निर्देशादेवेतरेतरयोगे ह्रस्वत्वं निपात्यते । 'पशुव्यञ्जनानामित्येव सिद्धेऽश्ववडवग्रहणं तत्पर्याय निवृत्त्यर्थम् । पूर्ववदत्रापि विकल्पे सिद्ध पूर्वापरादिग्रहणं पदान्तर. निवृत्त्यर्थम् , तेन पूर्वपश्चिमौ दक्षिणापरावित्यादौ विकल्पो न भवति ॥
SR No.023395
Book TitleSiddha Hem Llaghu Vrutti Avchuri Parishkar
Original Sutra AuthorN/A
AuthorJitendravijay
PublisherRanjanvijay Jain Pustakalay
Publication Year2007
Total Pages470
LanguageSanskrit
ClassificationBook_Devnagari
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy