________________
प्रथमपादः ] अवरिपरिष्कारसहितायाम् । ३७५ शुक्लाश्च शुक्लं, शुक्लानि वा । अन्येनेति किम् ? शुक्लञ्च शुक्लञ्च, शुक्ले । तन्मात्रभेद इत्येव हिमहिमान्यौ ॥ पुष्यार्थाढ़े पुनर्वसुः ॥१२९॥ पुष्पार्थान्नक्षत्रवृत्तेः परो नक्षत्रवृत्तिः पुनर्वसुः सहोतो व्यर्थः सन् एकार्थः स्यात् । उदितौ पुष्यपुनर्वसू , उदितौ तिष्यपुनर्वसू । पुण्यार्थादिति किम् ? आर्द्रापुनर्वसवः । पुनर्वसुरिति किम् ? पुष्यमघाः । भ इति किम् ? तिष्यपुनर्वसवो बालाः ।। विरोधिनामद्रव्याणां नवा द्वन्द्वः स्वैः ।। १३० ।। द्रव्यं गुणाद्याश्रयः, विरोधिवाचिनायमानमत्रैकत्वमर्थद्वारकमेवेत्युक्तमेकार्थमिति । शुक्लं शुक्ले वेति क्लीबस्यैकशेष एकार्थत्वे च शुक्लमिति, एकशेष एकार्थत्वाभावे च शुक्ल इति । शुक्लञ्च शुक्लम्च शुक्ले इत्यत्र ‘स्याद्वावसङ्ख्येय' इत्येक शेषः । हिमश्च हिमानी च हिमहिमान्यौ, महद्धिमं हिमानीत्युच्यते, अतः क्लीबाक्लीबकृत एव विशेषोऽत्र न, किन्त्वर्थकृत विशेषोऽप्यस्तीति नैकशेषः ॥ पुष्योऽर्थो यस्य तस्मात् , भे, पुनर्वसुः ॥ एकशेषो निवृत्तः पृथक् सूत्रकरणात् । एकं सहोक्ता वित्यनुवर्तते । भ इत्यस्याऽऽवृत्त्या पुष्यार्थपुनर्वसुशब्दयोर्विशेषणीयः। अर्थग्रहणं पर्यायार्थम् । पुनर्वसुशब्दो नक्षत्रवाचित्वे द्विवचनान्त:, ताराद्वयवाचित्वात् । पुष्यश्च पुनर्वसू चेति विग्रहे 'चार्थे द्वन्द्वः' तत्र पुरुषनक्षत्रवाचिनः पुष्यशब्दात्परस्य नक्षत्रवाचिनः पुनर्वसुशब्दस्य ताराद्वयबोधकत्वेऽप्येकवद्भावस्यानेन सूत्रेण कृते समासानन्तरमुचितप्राप्तं द्विवचनम् । आर्द्रा च पुनर्वसू चाऽऽ पुनर्वसवः । पुष्यश्च मघाश्च, पुष्यमघाः, मघाशब्दस्य बहुत्ववर्त्तित्वात् तिष्ये जातः. तिष्यः, पुनर्वस्वोतिौ पुनर्वसू ‘भर्तृसन्ध्यादेरि' त्यण', बहुलानुराधे 'ति तस्य लोपः, ततस्तिप्यश्च पुनर्वसू च तिष्यपुनर्वसवो बालाः । अत्रेतरेतरयोगरूपा सहोक्तिर्लाह्या, न तु समाहारलक्षणा, समाहार एकत्वानेकत्वयोर्विशेपाभावात् , तेन तिष्यपुनर्वसू इति समाहारे रूपम् ॥ विरोधो विद्यते