________________
३७४
सिद्धहमलघुवृत्तौ । तृतीयाध्यायस्य भेदे इत्येव ? स्त्रीपुंसौ ॥ ग्राम्याऽशिशुद्विशफसङ्घ स्त्री प्रायः ॥१२७।। ग्राम्या अशिशवो ये द्विशफा द्विखुरा अर्थात् पशवस्तेषां संके स्त्रीपुरुषसहोक्तौ प्रायः स्त्रीवाच्येकः शिष्यते, स्त्रीपुरुषमात्रभेदश्चेत् । गावश्च स्त्रियः, गावश्च नरा, इमा गावः । ग्राम्येति किम् ? रुरवश्वेमे रुरवश्चेमा इमे रुरवः । अशिश्चिति किम् ? बर्कर्यश्च बर्कराश्च बर्कराः । द्विशफ इति किम् ? गर्दभाश्च गर्दभ्यश्च गर्दभाः । सङ्घ इति किम् ! गौश्वायं गौश्चेयं इमौ गावौ । प्राय इति किम् ? उष्ट्राश्च उष्ट्यश्च उष्ट्राः ॥ क्लीयमन्येनैकश्च वा ॥ १२८ ।। क्लीबं नपुंसकमन्येनाक्लीबेन सहोक्तावेकः शिष्यते, क्लीबाक्लीबमात्रभेदे, तच्च शिष्यमाणं एकमेकार्थं वा स्यात् । शुक्लञ्च शुक्लश्च शुक्लं, शुक्ले वा। शुक्लञ्च शुक्लश्च च नदनद्यौ अत्र, नदशब्दस्य क्रियासहोकावपि पुल्लिङ्गत्वेऽपि च न पुरुषवाची शब्द इति नैकशेषः, तयोः पतिस्तस्य नदनदीपतेः । पुमाँश्च स्त्री च स्त्रीपुंसौ । अत्र शब्दभेदान्न तन्मात्रभेदः ।। ग्रामे भवा ग्राम्याः, न शिशवोऽशिशवः, द्वौ शफी खुरौ येषान्ते द्विशफाः, ग्राम्याश्च तेऽशिशवश्व, ग्राम्याशिशवश्व ते द्विशफाश्व, ग्राम्याशिशुद्विशफानां सङ्घः, तस्मिन् ।। इमा गाव इति स्त्रीवाचिन एकशेष. प्रदर्शकमुदाहरणम् । इमे रुरवः, अत्र 'पुरुषः स्त्रिये 'ति पुरुषवाचिन एकशेष आरण्यकत्वात् । बर्करा इति, वर्करशब्दस्य प्रकरणा दिना शिशुपरत्व इदं प्रत्युदाहरणम् ; अन्यथा 'वर्करस्तरुणः पशुरिति कोशात् प्रत्युदाहरणं न सङ्गच्छेत, अथवा पाणिनीयेऽतरुणेष्वित्युक्तेस्तद्रीत्या प्रत्युदाहरणमिदम्, अत्र मते तु वत्साश्चेमा वत्साश्चेमे वत्सा इम इति प्रत्युदाहरणं बोध्यम् । इमौ गावी, अत्र द्वयोरपि सङ्घो भवति, तथापि द्वितीयेन विना सहोक्केरभावात् सहोक्तिग्रहणादेव द्वयोः सङ्के सिद्धे सङ्घग्रहणं बहूनां समुदायविषयम् ॥ क्लीवम् , अन्येन, एकम् , च वा ॥ एकशेषेणैकप्रयोगस्य सिद्धत्वात् , विधी.