SearchBrowseAboutContactDonate
Page Preview
Page 410
Loading...
Download File
Download File
Page Text
________________ प्रथमपादः ] अवरिपरिष्कारसहितायाम् । ३७१ शकटस्य, अक्षश्च देवनः, अक्षश्च बिभीतकः अक्षाः। स्यादाविति किम् ! माता च जननी, माता च धान्यस्य, मातृमातारौ । असङ्ख्येय इति किम् ! एकश्चैकश्च ॥ त्यदादिः ॥ १२० । त्यदाद्यैरन्येन च सहोक्तौ त्यदादिरेवैकः शिष्यते । स च चैत्रश्च तौ, स च यश्च यौ, पीष्टसिद्धिः स्यात् । शकटाक्षपर्यायः, एकोऽक्षशब्दः, देवनाऽऽक्षपर्यायोऽपरः, बिभीतकाक्षपर्यायश्चान्यः । ततोऽक्षश्च अभश्च अक्षश्चेति विवक्षायामनेन सूत्रेणैकशेषेऽक्षा इति रूपम् । जननीपर्याय एको मातृशब्दः, अन्यश्च धान्यमापकवचनः, ततश्च माता च माता चेति विग्रहे मातृमातारावित्येव रूपम्, भ्यामादौ विभक्तो तुल्यरूपत्वाभावात् , जननीपर्यायस्य मातृशब्दस्य ह्यौणादिकतृप्रत्य. यान्तस्यौविभको परे ' तृस्वसनप्त' इति नियमेनाऽऽर् भवति, अपरस्य तु मातृशब्दस्य तृजन्तस्याऽऽर् भवतीति । केचित्त्वौ. जसादौ विरूपत्वेऽपि भ्यामादौ तुल्यरूपत्वे तत्रैकशेषो भवति, तेन मातृभ्यां मातृभिरित्याद्यपि भवतीत्याहुः । एकश्च एकश्चेत्यादौ नैकशेषः सोयवाचित्वात् । अत्र द्वन्द्वोऽपि न भवति, अनभिधानात् । सङ्ख्येय इति कर्मणि प्रत्ययात् सयानवाचिनो भव. त्येव यथा विंशतिश्च विंशतिश्च विंशती । द्वन्द्वापवादोऽयम् ॥ त्यद् आदिर्यस्य स त्यदादिः सहोको, एकः शेष इत्यनुवर्तन्ते । सहोक्कावित्यनुवर्तनादेव त्यदादिर्येन केनचिन्सहोक्ताविति लभ्यते, द्वितीया. भावे सहोत्यसम्भवात् , स च द्वितीयस्त्यदादिरन्यश्च गृह्यते विशेषानुपादानादित्यत आह, स्यदाधैरन्येन चेति । स च चैत्रश्च तावित्यन्येन सहोक्ताबुदाहरणम् , स च यश्च याविति त्यदादिना सहोक्तावुदाहरणम् । अत्र त्यदादिपाठे यत्परं तदेव शिष्यते । स्पर्द्ध परमिति परिभाषासूत्रात्, बहुलाधिकारात्कचित्पूर्वमपि शिष्यते । लिङ्गमपि स्त्रीनपुंसकानां मध्ये परमेव भवति यथा सा च चैत्रश्च, तौ । स च
SR No.023395
Book TitleSiddha Hem Llaghu Vrutti Avchuri Parishkar
Original Sutra AuthorN/A
AuthorJitendravijay
PublisherRanjanvijay Jain Pustakalay
Publication Year2007
Total Pages470
LanguageSanskrit
ClassificationBook_Devnagari
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy