________________
३७०
सिद्धमलघुवृत्तौ
[ तृतीयाध्यायस्य
मेकः शिष्यते, अर्थादन्ये निवर्त्तन्ते । वक्रश्च कुटिलश्च वक्रौ कुटिलौ वा । सितश्च शुक्लश्च श्वेतश्च सिताः शुक्काः श्वेता वा । अर्थेन समानामिति किम् ? लक्षन्यग्रोधौ । सहोक्तावित्येव ! वक्रश्च कुटिलश्च दृश्यः ॥ स्यादावसङ्घयेयः ॥ ११९ ॥ सर्वस्मिन् स्यादौ विभक्तौ समानानां तुल्यरूपाणां सहोक्तावेकः शिष्यते, न तु सङ्ख्येयवाची । अक्षश्च शेषः ॥ सहोक्तावित्यनुवर्तते । समानामित्यत्र निर्द्धारणे समुदायसमुदायसम्बन्धे वा षष्ठी, न तु स्थाने षष्ठी । स्थानषष्ठीस्वीकारे ह्येकशेष आदेशरूपः स्यात्, तथा च सति बिसे बिसानीत्यादौ कृतसकारत्वात् 'नाम्यन्तस्थे 'ति षत्वं स्यात् । वक्रश्च कुटिलश्चेति विग्रहे पदभेदेऽपि पदार्थस्य समानत्वाद् द्वन्द्वापवादोऽनेन सूत्रेणैकशेषः । असावेव शिष्यत इति विशेषानुकेरेकदा वक्रस्य शेषोऽन्यदा कुटि लस्य, यश्च शिष्यते स लुप्यमानार्थस्याप्यभिधायीति द्विवचनादयः । बहुवचनमतन्त्रं तेन द्वयोरप्येकः शिष्यते । लक्षन्यप्रोधावित्यत्र लोकदृष्ट्या समानार्थत्वं नास्ति, लौकिकसमानार्थताया एव विवक्षित्वा दन्यथा द्वन्द्वघटकपदानामन्योऽन्यार्थसङ्क्रमात् प्लक्षन्यग्रोधावित्यत्राप्येकशेषस्यापत्तेः । ननु शब्दानां जात्यभिधायकत्वपक्षे बहूनां शब्दानां प्रयोगाप्राप्तौ नार्थ एकशेषेणेति चेन्न, प्रत्यर्थ शब्दनिवेशाद्द्रव्यं द्रव्यं प्रति शब्दप्रयोगात्, एकेन शब्देनानेकस्य द्रव्यस्याभिधानं नोपपद्यत इत्यनेकार्थप्रतिपादनायानेकशब्दानां प्रयोगस्य पदानां द्रव्यवाचकत्वपक्षे प्रात्यैकशेषारम्भ आवश्यकः । नन्वेकः शेष इत्यत्रैकग्रहणं किमर्थम्, शेष इत्येकवचनादेवैकशेषस्य सिद्धेरिति चेन्न, शेषस्य विधीयमानत्वेन प्राधान्यतया प्रधाने च सङ्ख्याया अविवक्षणाद् द्विबहोरपि शेषप्रसङ्गात्, अत एकग्रहणम् ॥ स्यादौ, न सयेयोऽसपेयः ॥ समानाम्, एकः, शेषः, सहोक्तौ, इत्यनुवर्त्तन्ते । सरूपार्थमिदं वचनम्, अन्यथाऽर्थसाम्यस्य स्यादावप्यभिद्यमानत्वात् पूर्वेणा
।
·