________________
३७२
सिद्धमलघुवृत्तौ
[ तृतीयाध्यायस्य
अहं च स च त्वं च वयम् ॥ भ्रातृपुत्राः स्वसृदुहितृभिः ॥ १२१ ॥ स्वत्रर्थेन सहोक्तौ भ्रात्रर्थो, दुहित्रर्थेन च पुत्रार्थ एकः शिष्यते । भ्राता च स्वसा च भ्रातरौ पुत्रश्च दुहिता च पुत्रौ ॥ पिता मात्रा वा ॥ १२२ ॥ मातृशब्देन सहोक्तौ पितृशब्द एको वा शिष्यते । पिता च माता च पितरौ, मातापितरौ ॥ श्वशुरः श्वश्रूभ्यां वा ॥ १२३ ॥ श्वश्रूशब्देन सहोतौ श्वशुर एको वा शिष्यते । श्वशुरौ, श्वश्रूश्वशुरौ ॥ वृद्धो यूना तन्मात्र भेदे ॥ १२४ ॥
1
देवदत्तश्च तौ, अत्र स्त्रीपुंस लिङ्गयोः परं पुल्लिङ्गमेव भवति । सा च कुण्डे च तानि, अत्र परं नपुंसकमेव भवति । तच्च चैत्रश्च ते अत्रापि नपुंसकमेव भवति ॥ भ्रातरश्च पुत्राश्च, स्वसारश्च दुहितारश्च तैः ॥ सहोक्ता वित्यनुवर्त्तते, एवमग्रेऽपि । बहुवचनं पर्यायार्थम्, तेन भ्रातृपुत्रवाचिसर्वे शब्दा ग्राह्याः, एवं स्वस्रादावपि । यथासङ्ख्यायस्य : प्रवृत्तिः । अत्र भ्रातृस्वसृशब्दयोः सरूपत्वाभावात् ' पुरुषः खिये ' त्यस्य न प्रवृत्तिः ॥ स्त्रीपुंनपुंसकानां सहवचने स्यात्परमिति पुल्लिङ्गमेव भवति ॥ पिता मात्रा, वा ॥ पितृशब्दसाहचर्यान्मातृशब्दो जननीवचन एव ग्राह्यः । पक्षे मातापितरौ, 'लध्वक्षरासखी 'ति मातुरर्यत्वात्प्राक्प्रयोगः पितुर्दशगुणं माता गौरवेणातिरिच्यते इत्युक्तेः ।
"
"
आ द्वन्द्व' इति मातु ऋत आकारादेशः ॥ श्वशुरः, वव वौ ताभ्यां वा । श्वश्रभ्यामिति द्विवचनं जातौ धवयोगे च वर्त्तमानयोः श्वश्र्वोः परिग्रहार्थम् । श्वशुरश्च श्वश्रूश्वशुरौ, पक्षे श्वश्रू श्वशुरौ | अभ्यर्हितत्वाच्छ्वश्रूशब्दस्य पूर्वनिपातः । ननु पितृशब्देन मातापित्रोः श्वशुरशब्देन श्वश्रश्वशुरयोर्लक्षणया बोधसम्भवात् सूत्रद्वयमिदं व्यर्थम्, न च द्वन्द्वनिवृत्त्यर्थं तदिति वाच्यम्, इह द्वन्द्वस्यापि पक्ष इष्टत्वादिति चेन्मैवम्, पितृश्वशुरशब्दयोरिव मातृश्वश्रूशब्दयोः केव लयोरुक्तविषये प्रयोगं वारयितुं सूत्रद्वयारम्भात् ॥ वृद्धः यूना तृतीया,
,