SearchBrowseAboutContactDonate
Page Preview
Page 41
Loading...
Download File
Download File
Page Text
________________ प्रथमाध्यायस्य सिद्धहेमलघुवृत्तौ [प्रथमाध्यायस्य अहम् ॥१॥ अहमित्येतदक्षरं परमेश्वरस्य परमेष्ठिनो वाचकम् , श्रेयः । 'गुणाङ्गाद्वेष्ठेयस्' इतीयस् प्रत्यये 'प्रशस्यस्य श्र' इति श्रादेशः। 'अवर्णस्येवणे'ति एत् । 'अनतो लुप्' । 'शपी आक्रोशे' शपतीति शब्दः, 'शाशयिमनिकनिभ्यो द' इति दः, 'तृतीयस्य तृतीये 'ति पस्य बः । शासूक् अनुशिष्टौ, अनुशास्यन्ते आविष्क्रियन्ते व्युत्पाद्यन्ते शब्दा अनेनेति करणाधारेऽनट् , शब्दानामनुशासनम् । अत्र कथं षष्ठीसमासः ? 'तृतीयामिति' निषेधात् , उच्यते, षष्ठीतृतीययोः विभिन्नापेक्षत्वे निषेधस्याप्रवृत्तेः, प्रकाश्यते इत्यपेक्षया तृतीया, अनुशासनमित्यपेक्षया च षष्ठीति भिन्नापेक्षत्वमत्रेति न षष्ठीसमासनिषेधः। चर् भक्षणे, आचर्यते सेव्यते विद्यार्थ विनयग्रहणार्थ वा शिष्यैरित्या. चार्यः 'ऋवर्णव्यञ्जनाद् ध्यण' वृद्धिः। हिंड् गतिवृद्ध्योः, हिनोति स्वतेजसेति हेमः । चन्दति आहादयति लोकानिति चन्द्रः । हेमवगौरत्वाद्धेमः चन्द्रवदाह्रादकत्वाञ्चन्द्रः, हेमश्चासौ चन्द्रश्च हेमचन्द्रः, आचार्यश्वासौ हेमचन्द्रश्च आचार्यहेमचन्द्रः, तेनं । स्मं चिन्तायाम् , स्मरणं पूर्व स्मृत्वा, 'प्राक्काले' क्त्वा, किमप्यल्पं चिनोति बध्नाति अ. भिधेयतयेति किश्चित् , क्विप् , ' हूस्वस्य तः पित्कृती 'ति तोन्तः । 'अप्रयोगीत्' इति किब् लोपः । क्रियाविशेषणादम्' 'अनतो लुप्' अम् लोपः । अथवा किञ्चिदित्यव्ययं स्वरादिषु द्रष्टव्यम् । ततो 'अव्ययस्येति अम्लोपः । प्रपूर्वः काशङ दीप्तौ । प्रकाश्यते व्याकरणं- तत्स्वयं प्रकाश्यमानमाचार्येण प्रयुज्यते, 'प्रयोक्तव्यापारे णिग्,' वर्तमाने ते प्रत्ययः, 'क्यः शिती 'ति क्यः, ‘णेरनिटि' णिग्लोपः ॥ अहं पूजायाम् । अर्हति त्रिभुवनकृतां पूजामित्यहम् । ' अजि'. त्यौणादिके अप्रत्यये पृषोदरादित्वात् सानुनासिको निपातः । अम् ' अव्ययस्ये 'ति लुप् । परमेष्ठीति, सिद्धिलक्षणे परमे पदे तिष्ठतीति परमेष्ठी तस्य भगवतोऽहंतः प्रतिपादकं अहमित्येतद
SR No.023395
Book TitleSiddha Hem Llaghu Vrutti Avchuri Parishkar
Original Sutra AuthorN/A
AuthorJitendravijay
PublisherRanjanvijay Jain Pustakalay
Publication Year2007
Total Pages470
LanguageSanskrit
ClassificationBook_Devnagari
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy