SearchBrowseAboutContactDonate
Page Preview
Page 40
Loading...
Download File
Download File
Page Text
________________ * अर्हम् * श्रीसिद्धहेमलघुवृत्तिः ॥ अवचूरिपरिष्कारसमेता प्रणम्य परमात्मानं श्रेयः शब्दानुशासनम् । आचार्यहेमचन्द्रेण स्मृत्वा किञ्चित् प्रकाश्यते ॥ १ ॥ ऐं नमः । प्रणम्य लब्धदं पार्श्व ध्यात्वा शब्दानुशासनम् । अवचूरिपरिष्कारो लघुवृत्तेर्विधीयते ॥ १ ॥ 6 अथ भगवान्सुगृहीतनामधेयः श्रीहेमचन्द्रसूरीश्वरः जडमतिप्रस्तजनतानुकम्पा परिपूर्णमानसः सुविशुद्ध भाषावबोधाय श्रीशब्दानुशासनं प्रणेतुकामः ग्रन्थादौ ग्रन्थमध्ये ग्रन्थान्ते च मङ्गलं कुर्यादि ति शिष्ट समयमवलम्ब्य प्रारिप्सितग्रन्थसमाप्तिप्रतिबन्धकदुरि तोपशमनार्थमभिधेयादिप्रदर्शनार्थञ्चेष्टदेवतानमस्कारात्मकं मङ्गलमादौ निबध्नाति - प्रणम्येति, 'णमं प्रहृत्वे,' 'पाठे धात्वादेर्णो न' इति णस्य नत्वम्, पूजार्थः प्रकारः, प्रणमनं पूर्वं प्रणम्य ' प्राक्काल' इति क्त्वाप्रत्ययः । ‘अननः क्त्वो यबि'ति यबादेशः । 'अदुरुपसर्गान्तर' इति णत्वम् । अत सातत्यगमने, अतति सततं गच्छति ज्ञानादिपर्यायेष्वित्यात्मा । परमश्चासावात्मा च परमात्मा तम्, कर्मणि द्वितीयैकवचनम्। परमत्वश्च रागादिजेतृत्वात्, अतिशयदीप्तिमत्त्वात्, योगिगम्यत्वात् क्षायिकज्ञानादिमत्त्वाद्वा, इदमनयोर्मध्येऽतिशयेन प्रशस्यं .
SR No.023395
Book TitleSiddha Hem Llaghu Vrutti Avchuri Parishkar
Original Sutra AuthorN/A
AuthorJitendravijay
PublisherRanjanvijay Jain Pustakalay
Publication Year2007
Total Pages470
LanguageSanskrit
ClassificationBook_Devnagari
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy