SearchBrowseAboutContactDonate
Page Preview
Page 406
Loading...
Download File
Download File
Page Text
________________ মাথা। ] বিাভেঞ্জাহিদাষা। ইং द्वन्द्वः स्यात् । प्लक्षन्यग्रोधौ, वाक्त्वचम् । नाम नाम्नेत्यनुवृत्तावपि ऽर्थः प्रधान तथाऽत्र संर्वेषां पदार्थानां समकक्षत्वादवयवभेदानुगतैकप्रख्यावशाचोद्भूतावयवभेदः समुदायो वृत्तिपदवाच्यः, स चावयवाव्यतिरिक्त इत्यवयवशब्दैरेव व्यपदिश्यते धवखदिरपलाशा इति । यस्त्ववयवव्यतिरिक्तः शब्दान्तरेणोच्यते समुदायो वनं यूपमित्यादि, एकप्रख्याऽन्यथाऽनुपपत्तेश्चायं समुदायः परस्परापेक्षैः प्रत्येकमेव पदैरुच्यते, तत्रावधार्यमाणेन समुदायेन भेदरूपस्य तिरोधानात्, एकसमुदायाभिधायित्वेऽपि च द्वन्द्वस्य पट्टीद्व्या विति समानाधिकरणलक्षणः पुंवद्भावो न भवति, वाक्ये व्यभिचारासम्भवात् तद्गतस्य समानाधिकरणत्वस्याश्रयणात् । वृत्तौ त्वेकार्थीभावात्तदव्यभिचारः, पट्टी च मृद्वीचेति तु वाक्ये भेदप्रतीतिप्राधान्यम् , अत एव भेदाधिष्ठानेन समुच्चयेन योग इति समानाभिधेयत्वाभावः । समाहारेतरेतरयोर्भेदश्च यथा, सह विवक्षायामने कानुस्यूतैकप्रख्यारूपायाश्चैतदवयवप्राधान्य सङ्घप्राधान्यश्च । तत्रावयवप्राधान्यमितरेतरयोगस्य विषयः, तथाहिउद्भूतभेदसमूहाभिधायिनां द्वन्द्वपदानां प्रतिभागमसौ समूहः पर्यव. स्यति, तत एकैकस्यापि स वाच्यः, प्रत्यवयवपरिसमाप्तो हि समुदाय एकावयवदृष्टावपि गृह्यते, एवमेकावयववाचकेनाऽप्यभिधीयते, यथा प्लक्षन्यग्रोधावित्यादौ प्लक्षोऽपि व्यर्थः, न्यग्रोधोऽपि द्वयर्थः । यद्यपि प्लक्षन्यग्रोधशब्दयोः प्रत्येकं द्वयर्थत्वात् प्लक्षश्च न्यग्रोधश्चेत्येकवचनान्तेन विग्रहवाक्यं न स्यात् , प्लक्षन्यग्रोधाविति समासाविवच. नमपि न स्यात् , तथाप्युक्तविग्रहवाक्यं लौकिकं विज्ञेयम् । एवं नात्र चत्वारोऽर्थाः प्रतीयन्ते, किन्तु द्वावेव, याभ्यामेवात्रैकः शब्दो द्वयर्थस्ताभ्यामपरोऽपि, न हि द्वाभ्यां लक्षाभ्यामविभक्तौ भ्रातरौ चतुर्लक्षौ भवतः । यथा च भूयोऽवयवदृष्टौ समुदायः स्फुटमवधार्यते तथा स्पष्टार्थाभिधायिनः समुदायादपि स्फुटा प्रतीतिः, तथा च प्रत्य
SR No.023395
Book TitleSiddha Hem Llaghu Vrutti Avchuri Parishkar
Original Sutra AuthorN/A
AuthorJitendravijay
PublisherRanjanvijay Jain Pustakalay
Publication Year2007
Total Pages470
LanguageSanskrit
ClassificationBook_Devnagari
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy