SearchBrowseAboutContactDonate
Page Preview
Page 405
Loading...
Download File
Download File
Page Text
________________ ३६६ ____ सिद्धहेमलघुवृत्तौ तृतीयाध्यायस्य गतम् , क्रयक्रयिका, शाकपार्थिवः, त्रिभागः, सर्वश्वेतः॥ चार्थे द्वन्द्वः सहोक्तौ ॥११७ ॥ नाम नाम्ना सहोक्तिविषये चार्थवृत्तिः समासो गणार्थम् ॥ चस्य अर्थः चार्थस्तस्मिन् , द्वन्द्वः, सह वचनं सहोक्तिस्तस्याम् ॥ समुच्चयान्वाचयेतरेतरयोगसमाहारभेदाच्चत्वारः चार्थाः । यद्वर्तिपदैः प्रत्येकं पदार्थानां युगपदभिधानं सहोक्तिः । तत्रैकमर्थ प्रति द्वयादीनां क्रियाकारकद्रव्यगुणानां तुल्यबलानामविरोधिनामनियतक्रमयोगपद्यानामात्मरूपभेदेन चीयमानता समुच्चयः, यथा चैत्रः पचति पठति चेत्येकस्मिन्कारकेऽनेकक्रियाणाम् , चैत्रो मैत्रश्च पठतीत्यत्रानेककारकाणामेकस्यां क्रियायाम् , राज्ञो गौश्चाश्वश्चेत्यादा. वेकस्मिन्द्रव्येऽनेककारकाणाम् , राज्ञो ब्राह्मणस्य च गौरित्येकस्मिन् कारकेऽनेकद्रव्याणाम् , शुक्लश्चायं कृष्णश्चेत्येकस्मिन्धर्मिण्यनेकधर्माणाम्, आत्मरूपभेदेन चीयमानत्वात्समुच्चयः । गुणप्रधानभावमात्रवि. शिष्टः समुच्चय एवान्वाचयः, यथा भिक्षामट गाश्चाऽऽनय । भिक्षामटनं प्रधानं गवानयनञ्चानुषङ्गिकम् । द्रव्याणामेव परस्परसव्यपेक्षाणामु. द्भूतावयवभेदः समूह इतरेतरयोगः, यथा चैत्रश्च मैत्रश्च चैत्रमैत्री वा घटं कुर्वाते । अत्रावयवानामुद्भूतत्वात्तत्सङ्ख्यानिबन्धनं द्विवचनं बहुवचनञ्च भवति । स एव तिरोहितावयवभेदः संहतिप्रधानः समाहारः, यथा धवश्व खदिरश्च पलाशश्च धवखदिरपलाशं वा तिष्ठति । अत्र च समूहस्य प्राधान्यात्तस्यैकत्वादेकवचनमेव भवति । इहैकक्रियागुणनिवेशार्थमर्था बुद्ध्या निरूप्यमाणाः क्रियागुणद्वारेणेतरेतरस्यापेक्षया समुदायभावमापद्यमानाः साहभाव्येन वक्तुमभिप्रेता द्वन्द्वैकशेषलक्षणसमासपदवाच्या भवन्ति, समुदायश्चात्र नावयवव्यतिरिक्तः, अपि तु त एवावयवाः संहन्यन्ते यथा चात्रावयवभेदावभासानुविद्धा प्रतीतिर्नैयमिकी, अवयवावभासाच्च द्विवचनबहुवचने न विरुद्ध्येते, न हि यथा समासान्तरेष्वेक एवान्यावच्छिन्नो
SR No.023395
Book TitleSiddha Hem Llaghu Vrutti Avchuri Parishkar
Original Sutra AuthorN/A
AuthorJitendravijay
PublisherRanjanvijay Jain Pustakalay
Publication Year2007
Total Pages470
LanguageSanskrit
ClassificationBook_Devnagari
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy