________________
૧૦
सिमलचौ
[ दतीयाध्यायस्य
'लध्वक्षरादि' सूत्रे एकग्रहणाद्बहूनामपि । धवखदिरपलाशाः । चार्थ इति वयवं समूहस्य प्रतिपत्तावपि न शब्दान्तरवैयर्थ्यम् । सङ्घप्राधान्ये तु समाहारः । ननु यद्वर्त्तिपदैः प्रत्येकं पदार्थानां युगपदभिधानं सहो - चिरिति न सङ्गच्छते, अभिधानक्रमाद्भयभिधेयक्रमोऽवश्यंभावीति कथं युगपदेकेन शब्देन परस्परारोपितस्वार्थ समुदायरूपमभिधीयते, मैवम्, लक्षन्यग्रोधौ, धवखदिरपलाशा इत्यत्र हि यदा न्यग्रोधार्थ - प्रतिपत्तिकाले लक्षार्थस्य नावगतिः, पलाशाद्यर्थप्रतिपत्तिकाले च धवाद्यर्थस्य नावगतिस्तदा न्ययोपपलाशशब्दयोरेकार्थत्वादेकवचनमेव स्यात्, न द्विवचनबहुवचने, अतो द्विवचनबहुवचनान्यथानुपपस्याकोऽपि शब्दोऽनेकार्थाभिधायीत्यनुमानाद्युगपद्वाचित्वं निश्ची यते । वृत्तिविषय एव च शब्दानामर्थान्तराभिधानं न तु सर्वत्र, शक्तिवैचित्र्यात्, तथा चेतरस्याप्रयोगेऽपरेण तन्नोच्यते । ननु चार्थे द्वन्द्व उच्यते, चश्वाव्ययं तेन समासस्याप्यव्ययसंज्ञा प्राप्नोति । न च यदि चादिगणपठितानामव्ययसंज्ञा क्रियते, समासस्त्वयं न तत्र पठ्यत इति वाच्यम्, चादीनामव्ययत्वस्यार्थकृतत्वात्, अलिङ्गासपात्वे हि चादीनामव्ययत्वं स्वभावसिद्धं पाठेनानूद्यते, न तु पाठ एवं विधायकः, तथा च चशब्दसमानार्थत्वे द्वन्द्वस्याव्ययत्वं दुर्वारमेव । मा भूद्वाऽव्ययसंज्ञा पाठनिबन्धना, अलिङ्गसङ्ख्यात्वं त्वर्थाश्रयं केन निवार्येतेति चेदुच्यते, शब्दशक्तिभेदात् समुच्चयशब्दोऽयं यथा लिङ्गसङ्ख्यायुक्तं चार्थमाह, तथा द्वन्द्व इति समुच्चयोपाधिकार्थान्तराभिधायकोऽसौ पदान्तरोपादानादर्थनिष्ठास्तु द्योतकाश्चादय इति वाच - कत्वद्योतकत्वकृत एवायं विशेषो व्यक्तिवचनाभ्यामयोगो योगश्च । वाक्ये चशब्देन द्योत्यस्यार्थस्य लिङ्गसङ्ख्ये न स्तः, समासस्य तु वाचकत्वात्तदर्थस्य लिङ्गसयाभ्यां योग इति यावत् । तदेवं चतुर्वि घेषु चार्थेषु समुच्चयान्वाचययोः सहोत्त्यभावात् समासो न भवति ।