________________
प्रथमपादः ] अवधिपरिष्कारसहितायाम् । ३६३ दधिकतिपयम् , गोगृष्टिः, गोधेनुः गोवशा, गोवेहत्, गोबष्कयणी, कठप्रवक्ता, कठश्रोत्रियः, कठाध्यायकः, मृगधूर्तः, गोमतल्लिका, गोपकाण्डम् ॥ चतुष्पाद्गभिण्या ॥ ११२ ॥ चत्वारः पादा यस्या दास्यं प्राप्ता वा, उभयव्यञ्जना वा स्त्री, पुरुषस्वभावा इत्यर्थः । "पुंवत्कर्मधारय इति" पुंवद्भावः। नागी चासौ युवतिश्च, 'भाजगोणनागे'ति डी. प्रत्ययः, पूर्ववत्पुंवद्भावः। स्तोचनं स्तोकः, भावे घञ् , सोऽस्यास्तीति स्तोकम् । अत्र भिन्नलिङ्गयोरपि सामानाधिकरण्यम् , अग्निश्वासौ स्तोकश्च । गृष्टिः सकृत्प्रसूता, धेनुर्नवप्रसूता, वशा वन्ध्या, वेहत् गर्भ. घातिनी, बकयणी तरुणवत्सा । प्रवक्ता-उपाध्यायः, श्रोत्रियः छन्दोऽध्यायी, अध्यायकोऽध्येता । मृगधूतः शृगालः, शब्दप्रवृत्तिनिमित्तविशिष्टकुत्सायामत्र समासः, न तु शब्दप्रवृत्तिनिमित्तकुत्सायां तेन 'निन्धं कुत्सनैरि' त्यनेन मृगधूर्त इत्यादेर्न गतार्थता। मतल्लिका मचचिका प्रकाण्डमुद्धतल्लजौ प्रशस्तवाचकान्यमी, तेन गौ रमणीयेत्यादौ न समासः, प्रशंसायां रूढस्यैव विवक्षणात् । मतल्लि. कादयो नियतलिङ्गाः, न तु विशेष्यनिन्नाः । शब्दाश्चतुर्विधाः, रूढयोगिकयोगरूढयौगिकरूढभेदात् ,अवयवशक्तिनरपेक्ष्येण समुदायशक्तिमत्पदत्वं रूढत्वम् , यथा गोमण्डपादिः। समुदायशक्तिनैरपेक्ष्येणावय. वशक्तिमत्पदत्वं यौगिकत्वं यथा पाचकादिः। अवयवशक्तिसापेक्षसमुदायशक्तिमत्पदत्वं योगरूढत्वं यथा पङ्कजादिः । स्वतन्त्रोभयशक्तिमत्पदत्वं यौगिकरूढत्वं यथा उद्भिदादिः, अत्रोद्भेदनकर्ता तरुगुल्मादिर्योगविशेषश्च बोध्यत इति । एवञ्चात्र रूढिग्रहणाद् ये यौगिकाः प्रशस्तशोभनरमणीयादयः, ये च विशेषवचनाः शुचिमृद्वादयः, ये च गोण्या वृत्त्या प्रशंसां गमयन्ति सिंहो माणवक इत्यादयस्ते सर्वे व्युदस्यन्ते । विशेष्यस्य जातेः पूर्वनिपातार्थ वचनम् ॥ चत्वारः पादाः यस्याः सा चतुष्पाद्, गर्भिण्या॥ जातिरित्यनुवर्तते । गौश्वासौ