________________
सिद्धमलघुवृत्तौ
[ तृतीयाध्यायस्य
जातेस्तद्वाच्येकार्थं गर्भिण्या समासस्तत्पुरुषः कर्म्मधारयश्च स्यात् । गोगर्भिणी, महिषगर्भिणी । जातिरित्येव ? कालाक्षी गर्भिणी ॥ युवा खलतिपलितजरद्बलिनैः ॥ ११३ ॥ युवन्नित्येकार्थमेभिः समासस्तत्पुरुषः कर्म्मधारयश्च स्यात् । युवखलतिः, युवपलितः, युवजरन्, युववलिनः ॥ कृत्यतुल्याssख्यमजात्या ॥ ११४ ॥ कृत्यान्तं तुल्यपर्यायं चैकार्थ्यमजात्येन सह समासस्तत्पुरुषः कर्मधार यश्च स्यात् । भोज्योष्णम्, स्तुत्यपटुः । तुल्यसन् सदृश महान् ।
३६४
गर्भिणी च गोगर्भिणी । महिषगर्भिणी, 'पुंवत्कर्मधारये ' इति पुंवद्भावः । कालाक्षी गर्भिणी, संज्ञाशब्दोऽयं चतुष्पादमाह न तु जातिम् जातेर्विशेष्यस्य पूर्वनिपातार्थं वचनम् ॥ युवा प्रथमा, खलतिश्च पलितश्च जरश्च बलिनश्च तैः ॥ युवा चासौ खलतिश्च युवखलतिः । युवा चासौ जरंच युवजरन्, अत्र जरत्युत्साहादियुव धर्मोपलम्भाद् यूनि बाऽऽलस्यादिजरद्धम्र्मोपलम्भात् तद्रूपारोपेण सामानाधिकरण्यं विज्ञेयम् । 'नामग्रहणे लिङ्गविशिष्टस्यापि ग्रहणमिति न्यायेन युवतिश्चासौ खलतिश्च युवखलतिरित्याद्यपि विज्ञेयम् । युवशब्दस्य विशेष्यत्वात्परनिपाते प्राप्ते द्वयोर्वा गुणवचनत्वादनियमे पूर्वनिपातार्थं वचनम् । युवत्वस्य प्रसिद्ध्या यदा युवशब्देन पुरुषोऽभिधीयते तदा युवा विशेष्यः, युवत्वस्य चाऽप्रसिद्धत्वे युवशब्देन युवत्वविशिष्टपुरुषस्याभिधाने गुणवचनो युवन्शब्दः ॥ तुल्यस्य आख्या तुल्याख्या, कृत्यश्च तुल्याख्या च, न जाति: अजातिस्तया ॥ कृत्यस्य प्रत्ययवाचित्वेन तदन्तता । भोज्यश्च तदुष्णञ्च भोज्योष्णम् । स्तुत्यश्चासौ पटुश्व स्तुत्यपटुः । तुल्यश्चासौ संश्च तुल्य सन् । सत्कृत्यं परमपूज्य इत्यादौ षष्ठीसमासो विज्ञेयः, बाहुलकाद्वा 'सन्महदि'त्यस्यैवात्र प्रवृत्तिः । जात्या समासस्य, अजातेः पूर्वत्वस्य च प्रतिषे
·