SearchBrowseAboutContactDonate
Page Preview
Page 401
Loading...
Download File
Download File
Page Text
________________ ३६५ सिमलवृत्तौ सीथान्यायस्थ च्येकार्थं समासस्तत्पुरुषः कर्मधारयश्च स्यात् । गोवृन्दारकः, गौनागः, गोकुञ्जरः । पूजायामिति किम् ? सुसीमो नागः ॥ कतरकतमौ जातिप्रश्ने ॥१०९॥ एतावेकार्थी जातिप्रश्ने गम्ये जात्यर्थेन नाम्ना समासस्तत्पुरुषः कर्मधारयश्च स्यात् । कतरकठः, कतमगार्ग्यः । जातिप्रश्न इति किम् ! कतरः शुक्लः, कतमो गन्ता ॥ कि क्षेपे ॥११० ।। निन्दायां गम्यमानायां किमित्येकार्थ कुत्स्यवाचिना समासस्तत्पुरुषः कर्मधारयश्च स्यात् । किंराजा, किंगौः । क्षेप इति किम् ? को राजा तत्र॥ पोटायुवतिस्तोककतिपयगृष्टिधेनुवशावेह द्वष्कयणीप्रवक्तृश्रोत्रियाध्यायकधूर्तप्रशंसारूढैर्जातिः ॥ १११ ॥ पोटादिभिः प्रशंसारूढैश्च सह जातिवाच्येकार्थ समासस्तपुरुषः कर्मधारयश्च स्यात् । इभ्यपोटा, नागयुवतिः, अग्निस्तोकम् , वत् पूजावचनास्तथाऽप्युपमानात् पूजाऽवगम्यते । शोभना सीमा स्फटा यस्य सः सुसीमो नागः, अत्र नागशब्दो न पूजां गमयति, किन्तु जातिमात्रम् । व्याघ्रादेराकृतिगणत्वात् 'उपमेयं व्याघ्राद्यैरि'त्येव सिद्धे पूजायामेवेति नियमार्थम् , साम्योक्तावपि विधानार्थश्च वचनम् ॥ कतरश्च कतमश्च, जाते: प्रश्नस्तस्मिन् ॥ कतरश्वासौ कठश्च कतरकठः, 'गोत्रञ्च चरणैः सहे'ति कठो जातिवचनः । गुणक्रियाद्रव्यप्रश्न न भवति, यथा कतरः शुक्लः, कतमो गन्ता, कतरः कुण्डली । जातिप्रश्न एवेति नियमाथं वचनम् ॥ कि क्षेपे॥ कुत्सितो राजा किंराजा, 'न किमः क्षेपे' इति समासान्ताट् निषेधः । कुत्सितो गौः किंगौः। स्वस्वकार्याऽकरणादत्र क्षेपो गम्यते । क्षेपे एवेति नियमार्थ वचनम् ॥ प्रशंसायां रूढः प्रशंसारूढः, पोटा च युवतिश्च स्तोकञ्च कतिपयश्च गृष्टिश्च घेनुश्व वशा च वेहच्च बष्कयणी च प्रवक्ता च श्रोत्रियश्च अध्यायकश्च धूर्तश्च प्रशंसारूढाश्च तैः, जातिः ।। इभ्या च सा पोटा च, पुरुषवेषधारिणी स्त्री पोटा, गर्भ एव
SR No.023395
Book TitleSiddha Hem Llaghu Vrutti Avchuri Parishkar
Original Sutra AuthorN/A
AuthorJitendravijay
PublisherRanjanvijay Jain Pustakalay
Publication Year2007
Total Pages470
LanguageSanskrit
ClassificationBook_Devnagari
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy