________________
মাথ: অবিহিলহিনাখা। ३६१ तान्तमेकार्थ नप्रकारैरेव यानि भिन्नानि तैः सह समासस्तत्पुरुषः कर्मधारयश्च स्यात् । कृताकृतम् , पीतावपीतम् । क्तमिति किम् ! कर्तव्यमकत. व्यञ्च । नादिभिन्नैरिति किम् ? कृतं प्रकृतं, कृतञ्चाविहितञ्च ॥ सेट नाऽनिटा ॥१०६॥ सेट् क्तान्तं नादिभिन्नेनानिटा सह न समस्यते। क्लिशितमक्लिष्टम् , शितमशातम् । सेडिति किम् ? कृताकृतम् । अनिटेति किम् ? अशितानशितम् ॥ सन्महत्परमोत्तमोत्कृष्ट पूजायाम् ॥१०७॥ एतान्येकार्थानि पूजायां गम्यमानायां पूज्यवचनैः सह समासस्तत्पुरुषः कर्मधारयश्च स्यात् । सत्पुरुषः, महापुरुषः, परमपुरुषः, उत्तमपुरुषः, उत्कृष्टपुरुषः । पूजायामिति किम् ! सन् घटः, अस्तीत्यर्थः ।। वृन्दारकनागकुञ्जरैः॥१०८॥ पूजायां गम्यायामेभिस्सह पूज्यवातम् । आदिशब्देनेषदसमाप्तिद्योतका एवावादयो गृह्यन्ते, तेन पीतावपीतमित्यादिसिद्धिः । नादिभिरेव भिन्नैः, न तु प्रकृत्या प्रत्ययेनाऽर्थेन चेति विवक्षितत्वात्कृतञ्चाविहितश्चेत्यादौ प्रकृतिभेदान्न समासः । पूर्वनिपातनियमार्थं वचनम् ।। सह इटा वर्तत इति सेट, न, न विद्यत इट् यत्र तेन ॥ वचनविपरिणामेन पूर्वसूत्रमनुवर्तते । पूर्वसूत्रस्यापवादोऽयम् ॥ संश्च महांश्च परमश्च उत्तमश्च उत्कृष्टश्च, पूजायाम् ॥ संश्वासौ पुरुषश्च सत्पुरुषः, महांश्चासौ पुरुषश्च महापुरुषः, 'जातीयैकार्थेऽच्वेरिति डान्तादेशः । महाजनो महोदधिरित्यादौ पूजाप्रतीत्यभावेऽपि बहुलाधिकारात्समासः। पूजायामेवेति नियमाथं वचनं पूर्वनिपातव्यवस्थार्थञ्च । तेन गुणक्रियाशब्दैः सह समासे सदादीनां पूर्वनिपातव्यवस्था सिद्धा ॥ वृन्दारकश्च नागश्च कुञ्जरश्च तैः ॥ पूजायामित्यनुवर्तते । वृन्दारक इव वृन्दारकः, गौश्चासौ वृन्दारकश्च गोवृन्दारकः । वृन्दारकशब्दो देवजातिवाची, नागशब्दो गजसर्पवाची, कुञ्जरशब्दो गजवाची, इति न ते सदादि